________________
२०२
सटीकजैनतर्कभाषायां पूर्वकम् , महासामान्यस्य यद् व्याप्यं तद्रूपेण प्रथममभिधाय तस्य यद् व्याप्यं तद्रूपेण तदालिङ्गितस्य धर्मिणोऽभिधानमित्येवंक्रमेण, न तु प्रथमत एव यस्याऽवान्तरविशेषो नाऽस्ति तद्रूपेणैवाऽभिधानमिति विभजनक्रमनियमलक्षणविधिपुरस्सरमिति यावत् । अवहरणं विभजनम्, येनाऽभिसन्धिना-येनाऽध्यवसायविशेषेण क्रियते सोऽभिप्रायविशेषो व्यवहारनय इत्यर्थः । उदाहरति-यथेति । जीवादीति । जीवास्तिकायः पुद्गलास्तिकायो धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकायः कालश्चेत्येवं षट्प्रकारकं द्रव्यमित्यर्थः । क्रमभावी द्रव्योत्पत्त्यनन्तरं यो यदाकदाचिद् भवति संयोगादिरुत्क्षेपणादिः रक्ततरत्वादिर्वा स पर्यायः । सहभावी यो द्रव्येणाऽऽधारेण सहैवोत्पद्यते रूपरसगन्धस्पर्शादिर्गुणः स सहभावी पर्यायो बोध्यः ।
ऋजुसूत्रनयं लक्षयतिऋजु-वर्तमानक्षणस्थायिपर्यायमात्रं प्राधान्यतः सूचयन् अभिप्राय ऋजुसूत्रः ।
अभिप्राय इत्यन्तं लक्षणम्, ऋजुसूत्र इति लक्ष्यम् । अन्वयार्थोपदर्शनेन लक्षणेऽस्मिन् ऋज्वित्यस्य वर्तमानक्षणस्थायिपर्यायमात्रमित्यर्थकथनम्, एवञ्च भूतकालवृत्तित्वे [भविष्यत्कालवृत्तित्वे च] कौटिल्यमित्यभिसन्धानम्, कुटिलतारूपत्वं च तयोरर्थेऽसम्भवादिति । सूत्रयति-सूचयतीति सूत्रमिति व्युत्पत्तिमवलम्ब्य, २आभासताव्यवच्छेदाय प्राधान्यत इत्युपादाय च सूत्रमित्यस्य प्राधान्यतः सूचयन् इत्यर्थकथनम् । नयत्वादेवाऽभिप्रायत्वं प्राप्तमित्याशयेनाऽभिप्राय इति ।
उदाहरति
यथा सुखविवर्तः सम्प्रत्यस्ति । अत्र हि क्षणस्थायि सुखाख्यं पर्यायमात्रं प्राधान्येन प्रदर्श्यते, तदधिकरणभूतं पुनरात्मद्रव्यं गौणतया नाऽर्ण्यते इति ।
सुखविवर्तः सुखाख्यपर्यायः, सम्प्रति-वर्तमानकाले, अस्ति-वर्तते । उदाहृतस्य ऋजुसूत्रलक्षणयोगं भावयति-अत्रेति । अत्र-सुखविवर्त्तः सम्प्रत्यस्तीत्यस्मिन्, हि-यतः । वर्तमानकालः क्षणमात्ररूप एवाऽस्मिन् नये इष्ट इत्यतः क्षणस्थायीत्युक्तम् । सुखस्य तदाधारस्याऽऽत्मनश्चरे सत्त्वेऽपि सुखसत्त्वसम्भवात् तदवगाहने न निरुक्तलक्षणसमन्वय इत्यत
१. 'ऋजुसूत्र' इत्यस्माद् नामत एव कथं तल्लक्षणं प्रकटीभवति तत् प्रदर्श्यते । २. ऋजुसूत्राभासेऽतिव्याप्तिवारणाय । ३. 'सम्प्रत्यात्मनि सुखविवर्तोऽस्ती'त्यत्र सुखस्याऽऽत्मनश्च सत्त्वात्, सुखाख्यपर्यायावगाहनादिदमपि ऋजुसूत्र
दृष्टान्तं भवेदिति, दृष्टान्ते लक्षणसमन्वयाभावाद् विरोधः स्यादित्यतो 'मात्र पदम् ।