________________
२०१
नयविशेषनिरूपणम्
परसङ्ग्रहं लक्षयति
तत्राऽशेषविशेषेष्वौदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परः सङ्ग्रहः, यथा-विश्वमेकं सदविशेषादिति ।
तत्र-परापरसङ्ग्रहयोर्मध्ये । अशेषादि लक्षणम्, परः सङ्ग्रह इति लक्ष्यम् । अशेषेषु द्रव्यत्वाद्यवान्तरसामान्य-तदाधारव्यक्तिविशेषेषु गजनिमीलिकामवलम्बमानः सत्तालक्षणमहासामान्यस्वरूपं पर्यायामिश्रितद्रव्यमेव यो विषयीकरोति, एवम्भूतो बोधविशेषः परसङ्ग्रह इत्यर्थः । उदाहरति-यथेति । सर्वं हि वस्तु 'सत्, सद्' इत्येवं भाति, ततो वस्तुमात्रं सदेव भवति । 'घटः, पट' इत्यादिकं तु व्यावृत्तत्वाद् न वस्तुरूपम्-'आदावन्ते च यद् नाऽस्ति, वर्तमानेऽपि तत् तथे'ति' सत्त्वमेव वस्तुनः पारमार्थिक रूपम्, तच्चैकमिति तदात्मकं विश्वमप्येकं-सदविशेषात्-सद्रूपस्य सर्वत्र साधारणत्वात् । रूपान्तरस्य त्वननुगामितया कल्पितत्वेन ततो विश्वस्य भेदाऽसम्भवादित्यर्थः ।
अपरसङ्ग्रहं लक्षयति
द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानः, तद्भेदेषु गजनिमीलिकामवलम्बमानः पुनरपरसङ्ग्रहः । ..
अपरसङ्ग्रह इति लक्ष्यनिर्देशः, द्रव्यत्वादीनीत्यादिलक्षणनिर्देशः । अवान्तरसामान्यानि-महासामान्यसत्ताव्याप्यजातीः । द्रव्यत्वादीनीत्यत्रादिपदाद् गुणत्वपर्यायत्वादेरुपग्रहः । मन्वानः-स्वीकुर्वाणः । तद्भेदेषु-द्रव्यभेदेषु जीवपुद्गलधर्माधर्मास्तिकायादिषु द्रव्यत्वावान्तरसामान्यलिङ्गितेषु, गजनिमीलिकाम् औदासीन्यम् । अन्यत् स्पष्टम् । अस्योदाहरणं 'जीवादिकमेकमेव द्रव्यविशेषा'दित्यायूहनीयम् ।
व्यवहारनयं लक्षयति- -
सङ्ग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाऽभिसन्धिना क्रियते स व्यवहार:२ । यथा-यत् सत् तद् द्रव्यं पर्यायो वा, यद् द्रव्यं तद् जीवादि षड्विधम्, यः पर्यायः स द्विविधः-क्रमभावी सहभावी चेत्यादि ।
सङ्ग्रहेणेत्यादि सेत्यन्तं लक्षणम्, व्यवहार इति लक्ष्यम् । सामान्यग्राहिणा सङ्ग्रहनयेन सामान्यात्मना विषयीकृतानां विशेषात्मनामर्थानां विधिपूर्वकं-स्वसाधारणरूपाभिधान१. मृत्तिकाकाले खण्डघटकाले च घटस्याऽभावाद् वर्तमानेऽपि घटस्याऽभावः-यद् नाऽनुगामि, न तद्
वास्तविकमितीहाऽऽशयः । २. व्यवहारनयो मुख्यवृत्त्या लोकव्यवहारनिबन्धनः, तदुभयोरपि प्रायो विशेषविश्रान्तत्वात् ।