________________
२००
सटीकजैनतर्कभाषायां . अत्र विशेषणीभूतं वस्तु अपि द्रव्यम्, विशेष्यीभूतं पर्यायवद्रव्यमित्यपि द्रव्यम् । तत्र विशेषणत्वादेकस्याऽप्राधान्यं द्वितीयस्य तु प्राधान्यमिति तथैव विवक्षणमिति स्पष्टयतिपर्यायवद्रव्याख्यस्येति ।
पर्यायद्रव्ययोर्मुख्यामुख्यरूपतया विवक्षणपरं नैगममुदाहरति
क्षणमेकं सुखी विषयासक्तजीव इति पर्यायद्रव्ययोर्मुख्यामुख्यतया विवक्षणम्, अत्र विषयासक्तजीवाख्यस्य धर्मिणो विशेष्यत्वेन मुख्यत्वात्, सुखलक्षणस्य तु धर्मस्य तद्विशेषणत्वेनाऽमुख्यत्वात् । .
विषयासक्तजीवलक्षणद्रव्यस्य विशेष्यतया प्राधान्यम्, सुखस्य तु पर्यायस्य विशेषणत्वादप्राधान्यम् । तथैव च विवक्षेति सङ्गमयति-अत्रेति । अत्र-निरुक्तोदाहरणस्थले ।
ननु वस्त्वंशग्राह्येव नयोऽभिमतः, उदाहतनैगमस्तु द्रव्यपर्यायोभयविषयकत्वेन वस्तुविषयकत्वात् प्रमाणं स्यादित्याशङ्क्य प्रतिक्षिपति
न चैवं द्रव्यपर्यायोभयावगाहित्वेन नैगमस्य प्रामाण्यप्रसङ्गः-प्राधान्येन तदुभयावगाहिन एव ज्ञानस्य प्रमाणत्वात् ।
एवम् उदाहृतनैगमस्य द्रव्यपर्यायोभयविषयकत्वाभ्युपगमे । वस्तुनि द्रव्यपर्याययोः प्राधान्येनैव स्वरूपता-तथासत्येव तदात्मकत्वमेकस्य वस्तुनः । न ह्येकमेवं प्रधानमप्रधानं च सम्भवति । यस्याऽप्राधान्यं तद् उपचरितमेव, न ह्युपचरितं वस्तुरूपम्, न हि सिंहत्वेनोपचरितो माणवकः सिंहो भवति । इत्थं चोदाहृतस्य नैगमस्य प्रधानतया द्रव्यविषयकत्वाद् गौणतया पर्यायविषयकत्वात् प्राधान्येनोभयावगाहित्वाभावादुभयात्मकवस्त्वगाहित्वाभावेन न प्रामाण्यमित्याह-प्राधान्येनेति । तदुभयावगाहिन एव-तदुभयविषयकस्यैव ।
सङ्ग्रहं निरूपयतिसामान्यमात्रग्राही परामर्शः सङ्ग्रहः ।
सामान्यमात्रग्राही परामर्श इति लक्षणम्, सङ्ग्रह इति लक्ष्यम् । परामर्शः निश्चयः, अध्यवसायविशेष इति यावत् । सामान्यात्मनाऽवान्तराशेषविशेषविषयकमेव, न तु विशेषात्मना विशेषविषयकम्, एतादृशं यद् ज्ञानं तत् सङ्ग्रहनय इत्यर्थः ।
तं विभजतेस द्वेधा-परोऽपरश्च । परसङ्ग्रहोऽपरसङ्ग्रहश्चेत्येवं द्विप्रकारः सङ्ग्रह इत्यर्थः ।