________________
नयविशेषनिरूपणम्
१९९ अत्र-उपदर्शितप्रकारत्रयमध्ये । अत्र आत्मर्मिणि द्रव्ये सत्त्वचैतन्ययोः तद्धर्मत्वात् तत्पर्यायभूतयोः 'सच्चैतन्य'मित्येवं विवक्षणे, सत्त्वस्य विशेषणत्वेन गौणत्वम्, चैतन्यस्य तद्विशेष्यत्वेन मुख्यत्वमित्येवं पर्याययोर्मुख्यामुख्यतया विवक्षणमित्येव स्पष्टयति-अत्रेति । अत्र-सच्चैतन्यमात्मनीत्यस्मिन् । व्यञ्जनपर्यायस्य-चैतन्यमुपयोगस्वरूपमात्मनः प्रतिक्षणं विभिन्नसुखदुःखहर्षविस्मयाद्यर्थपर्यायभावेऽप्यनुगामित्वाद् व्यञ्जनपर्यायः, तस्य । विशेष्यत्वेनेति । सच्चैतन्यमित्यत्र चैतन्यं विशेष्यं सत्त्वं च विशेषणमित्यतो विशेष्यत्वेन । सत्त्वाख्यस्य त्वित्यत्राऽपि व्यञ्जनपर्यायस्येति सम्बद्ध्यते-यथा कालत्रयानुगामि चैतन्यं तथा प्रतिविशिष्टसत्त्वमपीति ।
व्यञ्जनपर्यायः क इत्यपेक्षायामाहप्रवृत्तिनिवृत्तिनिबन्धनार्थक्रियाकारित्वोपलक्षितो व्यञ्जनपर्यायः ।
यद्धर्मसम्बन्धात् चेतनादिशब्दस्याऽर्थविशेषे प्रवृत्तिः, यद्धर्मासम्बन्धाच्च तस्याऽर्थविशेषे निवृत्तिः, तन्निबन्धना याऽर्थक्रिया 'अयं चेतनोऽयमचेतन' इत्यादिव्यवहृतिलक्षणा, तत्कारित्वोपलक्षितः तत्स्वरूपयोग्यत्ववान् । न हि चैतन्यादिसत्त्वे उक्ताऽर्थक्रिया सर्वदा भवत्येव-व्यवहारकर्तुरभावे वा व्यवहतीच्छाद्यभावे वा व्यवहृतेरभावाद् । अतो निरुक्तार्थक्रियाकारित्वं चेतनादेर्व्यञ्जनपर्यायतासम्पादकं विशेषणं न भवति, तथा सति तथाव्यवहतिजननाभावदशायां चैतन्यादेर्व्यञ्जनपर्यायत्वाभावप्रसङ्गात् । अर्थक्रियास्वरूपयोग्यता तु सहकार्यन्तरविरहात् कार्याजननेऽपि न व्यावर्त्तते इत्यभिसन्धानेनाऽर्थक्रियाकारित्वविशिष्ट इत्यनुक्त्वा अर्थक्रियाकारित्वोपलक्षित इत्युक्तम् । एवम्भूतो यः पर्यायः स व्यञ्जनपर्याय इत्यर्थः ।
____ तत् किमन्योऽपि पर्यायोऽस्ति येन व्यञ्जनपर्याय इति विशिष्योच्यते इति चेदस्त्येवाऽर्थपर्यायः । तर्हि स कीग्रूप इत्यपेक्षायामाह
भूतभविष्यत्वसंस्पर्शरहितं वर्तमानकालावच्छिनं वस्तुस्वरूपं चाऽर्थपर्यायः ।
यः पर्यायोऽतीतकालेऽनागतकाले च धर्मिणि न सत्तामनुभवति, किन्तु वर्तमानकालावच्छेदेनैव तत्र वर्त्तते, एवम्भूतो यो वस्तुस्वरूपपर्यायो प्रतिक्षणमन्योन्यस्वरूपभवनलक्षणः सोऽर्थपर्याय इत्यर्थः ।
द्रव्ययोर्मुख्यामुख्यतया विवक्षणपरं नैगममुदाहरति
वस्तु पर्यायवद्व्यमिति द्रव्ययोर्मुख्यामुख्यतया विवक्षणम्, पर्यायवद्रव्याख्यस्य धर्मिणो विशेष्यत्वेन प्राधान्याद्, वस्त्वाख्यस्य विशेषणत्वेन गौणत्वात् ।