________________
१९८
सटीकजैनतर्कभाषायां
पर्यायार्थिकः चतुर्धा - ऋजुसूत्रशब्दसमभिरूढैवम्भूतभेदात् । ऋजुसूत्रः, शब्दः, समभिरूढः, एवम्भूतः - इत्येवं भेदात् चतुः प्रकारः पर्यायार्थिक इत्यर्थः । उभयसङ्कलने नयाः सप्तेति फलितम् ।
ऋजुसूत्रस्य पर्यायार्थविशेषतयाऽभिधानं सिद्धसेनादिमतमाश्रित्य । पूज्य श्रीजिनभद्रगणिक्षमाश्रमणमते तस्य द्रव्यार्थिकत्वमेव । तन्मते द्रव्यार्थिका नैगमसङ्ग्रहव्यवहार्जुसूत्राः चत्वारो नयाः, पर्यायार्थिकाः शब्दसमभिरूढैवम्भूताः त्रयो नयाः । नैगमस्य सिद्धसेनमते सामान्यग्राहिणः सङ्ग्रहे, विशेषग्राहिणः व्यवहारेऽन्तर्भावः - इत्येवं विशेषा बहवः सन्ति, तथापि अन्यान् विशेषान् ग्रन्थगौरवभयादुपेक्ष्य ऋजुसूत्रस्य द्रव्यार्थिकत्वमननं यत् पूज्यपादानां तदेवोपदर्शयति
ऋजुसूत्रो द्रव्यार्थिकस्यैव भेद इति तु जिनभद्रगणिक्षमाश्रमणाः । नयविशेषनिरूपणम्
द्रव्यार्थिकस्य प्रथमोद्दिष्टत्वात् प्रथमं विभजनाच्च तस्याऽऽद्यं प्रकारं नैगमं लक्षयतितत्र सामान्यविशेषाद्यनेकधर्मोपनयनपरोऽध्यवसायो नैगमः, यथा पर्याययोद्रव्ययोः पर्यायद्रव्ययोश्च मुख्यामुख्यरूपतया विवक्षणपरः ।
तत्र-नैगमसङ्ग्रहव्यवहारेषु द्रव्यार्थिकभेदेषु मध्ये । सामान्येत्यादि लक्षणम्, नैगम इति लक्ष्यम् । द्रव्यत्वमनुगतत्वात् सामान्यम्, सहभावी पर्यायो गुणः क्रमभावी पर्यायश्च - तावुभौ व्यावृत्तत्वाद् विशेषः । आदिपदाद् नित्यत्वानित्यत्वभेदाभेदादेर्ग्रहणम् । तथाविधानेकधर्माणां धर्मिण्युपनयने परः-प्रवणः अध्यवसायः - अभिप्रायो नैगमनय इत्यर्थः ।
अमुमेवाऽर्थं स्पष्टयति-यथेति । पर्याययोरेकपर्यायस्य मुख्यरूपतयाऽपरपर्यायस्याS मुख्यरूपतया = गौणतया विवक्षणपरः = प्रतिपादनसमर्थ एको नैगमः । द्रव्ययोरेकद्रव्यस्य मुख्यरूपतया, परद्रव्यस्याऽमुख्यरूपतया प्रतिपादनप्रवणो द्वितीयो नैगमः । पर्यायद्रव्ययोरेकतरस्य पर्यायस्य द्रव्यस्य वा मुख्यतयाऽपरस्य द्रव्यस्य पर्यायस्य वाऽमुख्यरूपतया ज्ञापनप्रवीणः तृतीयो नैगम इत्यर्थः ।
तत्र पर्याययोर्मुख्यामुख्यतया विवक्षणपरं नैगममुदाहरति
अत्र सच्चैतन्यमात्मनीति पर्याययोर्मुख्यामुख्यतया विवक्षणम् । अत्र चैतन्याख्यस्य व्यञ्जनपर्यायस्य विशेष्यत्वेन मुख्यत्वात्, सत्त्वाख्यस्य तु विशेषणत्वेनाऽमुख्यत्वात् ।
'जिनभद्र ० ' - विशेषा० बृ० गा० ७५ विशेषा० गा० ७७, २२६२ |
१. दृश्यताम् पृष्ठ २४३ टि. २।