________________
नयनिरूपणम्
१९७ शङ्काऽपि व्युदस्ता । समुद्रैकदेशस्य न समुद्रत्वमिति समुद्रभिन्नत्वेऽपि नाऽसमुद्रत्वम्, किन्तु समुद्रांशत्वमेव । तथा नयानां प्रमाणभिन्नत्वेऽपि नाऽप्रमाणत्वम्, किन्तु प्रमाणैकदेशत्वमेव । तदुक्तं
'नाऽप्रमाणं प्रमाणं वा, नयो ज्ञानात्मको मतः । स्यात् प्रमाणैकदेशस्तु, सर्वथाऽप्यविरोधतः ॥१॥ नाऽयं वस्तु न चाऽवस्तु, वस्त्वंशः कथ्यते बुधैः ।
नाऽसमुद्रः समुद्रो वा, समुद्रांशो यथैव हि ॥२॥' इति । अथ नयान् विभजते
ते च द्विधा-द्रव्यार्थिकपर्यायार्थिकभेदात् । तत्र प्राधान्येन द्रव्यमात्रग्राही द्रव्यार्थिकः । प्राधान्येन पर्यायमात्रग्राही पर्यायार्थिकः ।
ते च-नयाश्च । द्रव्यार्थिको नयः, पर्यायार्थिको नयः-इत्येवं नया द्विविधा इत्यर्थः ।
द्रव्यार्थिकनयं लक्षयति-तत्रेति । तत्र-द्रव्यार्थिकपर्यायार्थिकयोर्मध्ये । प्राधान्येन द्रव्यमात्रग्राहीति लक्षणम्, द्रव्यार्थिक इति लक्ष्यम् । प्राधान्येनेत्युपादानाद् गौणतया पर्यायग्राहित्वमपि लभ्यते, तेन पर्यायाप्रतिक्षेपित्वावगतितो द्रव्यार्थिकभासातिव्याप्तिव्युदासः । मात्रपदोपादानाच्च प्रमाणातिव्याप्तिनिरासः । गौणतया पर्यायग्राहिणि सामान्यतो द्रव्यमात्रग्राहित्वं न स्यादेवेत्यसम्भवः, तद्वारणाय प्राधान्येनेति । ___पर्यायार्थिकनयं लक्षयति-प्राधान्येनेति । प्राधान्येन पर्यायमात्रग्राहीति लक्षणनिर्देशः, पर्यायार्थिक इति लक्ष्यनिर्देशः । अत्राऽप्यसम्भववारकं प्राधान्येनेति, प्रमाणेऽतिव्याप्तिवारकं मात्रेति । प्राधान्येनेति विशेषणमहिम्ना नयसामान्यलक्षणानुगमनमहिम्ना वा लब्धादितरांशाप्रतिक्षेपित्वात् पर्यायभासातिव्याप्तिवारणम् ।
द्रव्यार्थिकनयं विभजतेतत्र द्रव्यार्थिकः त्रिधा-नैगमसङ्ग्रहव्यवहारभेदात् ।
तत्र-द्रव्यार्थिकपर्यायार्थिकयोर्मध्ये । नैगमः, सङ्ग्रहः, व्यवहारवेत्येवं भेदात् त्रिप्रकारो द्रव्यार्थिक इत्यर्थः ।
पर्यायार्थिकनयं विभजते१. नयानां वस्त्वेकांशबाहित्वात् प्रमाणैकदेशत्वम् । २. वस्तुनि द्रव्यपर्याययोः समानरूपेणैवाऽवस्थानम् । केवलं ज्ञप्तिकाले प्रतिपादनकाले वाऽऽपेक्षिक: ___ प्राधान्यगौणभावः । ३. प्रकृतवत्स्वंशग्राहि-तदितरांशाप्रतिक्षेपित्वादि ।