________________
१९६
सटीकजैनतर्कभाषायां अन्यथा समग्रग्राहिणः प्रमाणस्य तदन्तःसन्निविष्टैकदेशग्राहित्वमस्त्येवेति प्रमाणेऽप्येतल्लक्षणमतिव्याप्तं स्यात् । यद्यपि एकदेशमात्रग्राहिण इत्युक्त्याऽपि प्रमाणेऽतिव्याप्तेर्वारणसम्भवः, तथापि यथाश्रुतस्य न कुत्राऽपि सन्नये सत्त्वं-सन्नयस्य गौणतयाऽभिमतग्रायैकदेशभिन्नदेशग्राहित्वस्याऽपि भावादित्यसम्भवः स्यादिति तद्वारणार्थं प्रधानतयेत्यस्याऽवश्यमुपादेयत्वम् ।
दुर्नया अप्येकदेशग्राहिण इति तेष्वतिव्याप्तिवारणाय-इतरांशाप्रतिक्षेपिण इति । दुर्नयाश्चाऽन्योन्यप्रतिपक्षाः इतरांशान् प्रतिक्षिपन्त्येवेति न तेष्वतिव्याप्तिः । नयास्तु स्वविषयातिरिक्तविषये गजनिमीलिकामेवाऽवलम्बन्ते इति भवन्ति इतरांशाप्रतिक्षेपिणः ।
. अध्यवसायविशेषाः-प्रमातुरभिप्रायभेदाः । एतेन-ये एकदेशं गृह्णन्ति इतरांशं च न प्रतिक्षिपन्ति, ते स्वरूपानुपलम्भाद् न सन्त्येवेत्याशङ्का व्युदस्ता-ईदृशानां सङ्ग्रहादिस्वरूपाणामभिप्रायभेदानां स्वसंवेदनसिद्धत्वेनाऽनुपलम्भाभावादित्याशयः ।
नया एव च मतशब्देनोच्यन्ते, यतः क्वचिद् मते इति वक्तव्ये नये इति व्यपदिश्यते, यथा-एवं न्यायनयज्ञैरिति । 'प्रामाण्यं गौतमे मते' इत्यत्र 'गौतमे नये' इत्यपि वक्तुं शक्यते । एकैकस्मिन् अपि दर्शने यानि विभिन्नानि मतानि- इदं प्राचां मतम्, इदं नव्यानां मतम्, स्वतन्त्राणां चेदं मतम्, जगदीशमतम्, गदाधरमतमिति-दृश्यन्ते, तानि सर्वाणि नयस्वरूपाण्येवोपलभ्यन्ते, परमितरांशप्रतिक्षेपित्वात् सुनया न भवन्ति । प्राचां मतमिति वक्तव्ये प्राचामिष्टमित्येवमप्युपलम्भत एव अभिप्रायश्चेच्छाविशेष एवेति नयस्याऽभिप्रायरूपताऽपि नाऽनुपलब्धिबाधिता । इच्छा च जैनमते ज्ञानविशेष एव, न तु नैयायिकमत इव ज्ञानाभिन्नो गुण इत्यभिप्रायविशेषरूपाणां नयानामध्यवसायविशेषत्वं सुसङ्गतमेवेति निरुपद्रवमिदं लक्षणमिति बोध्यम् ।
ननु यद्येवं नया उक्तदिशा ज्ञानविशेषा एव, तदा स्वपरसंवेदनरूपत्वात् प्रमाणत्वमप्येषां सम्भवेदेवेति प्रमाणभिन्नतयैषां मननमसङ्गतमित्याशङ्काशङ्कसमुद्धरणायाऽऽह
प्रमाणैकदेशत्वात् तेषां ततो भेदः । यथा हि समुद्रैकदेशो न समुद्रो नाऽप्यसमुद्रः, तथा नया अपि न प्रमाणं न वाऽप्रमाणमिति ।
प्रमाणैकदेशत्वादिति । यतः प्रत्येकमस्तित्वादयो धर्मा नयविषया अनन्तधर्मात्मकवस्त्वेकदेशा एव ततः, प्रमाणैकदेशत्वाच्च, तेषां नयानाम्, ततः प्रमाणाद्, भेदः पृथग्भावः ।
समुदितस्वरूपादेकदेशस्य पृथग्भावमनुगुणदृष्टान्तेन द्रढयति-यथेति । अनेन दृष्टान्तोपदर्शनेन-'परस्परविरोधे हि न प्रकारान्तरस्थिति'रिति न्यायाद् नयानां प्रमाणत्वे पृथगुपन्यासो व्यर्थः, प्रमाणभिन्नत्वेऽप्रमाणत्वाद् न ततो वस्त्वंशसिद्धिरिति न वस्तुसाधनाङ्गत्वमिति१. दर्शनान्तरेऽपि कस्यचिद् ज्ञानस्य प्रमाणाप्रमाणोभयकोटिबहिर्भावोऽभ्युपेयते, यथा-"न प्रमा नाऽपि भ्रमः
स्यान्निर्विकल्पकम्"-कारिकावली १३५ ।