________________
कालादिभिर्गुणानां भेदाभेदवृत्ती
१९३ 'अस्ति घट' इत्येवंरूपेण घटस्याऽनुरञ्जनं तदात्मतयाऽभिव्यापनमित्येवं प्रतिनियतस्येति यावत्, अनेकत्वात् विभिन्नत्वात् । अनेकैरिति । नानारूपैरस्तित्वादिगुणलक्षणोपकारकैर्जायमानस्य स्वानुरक्तत्वकरणोपकारस्याऽभिन्नत्वविरोधाद् । नहि भवति दण्डस्य विशेषणत्वे[जायमाना] दण्डीतिविशिष्टस्वरूपतानिष्पत्तिरेव कुण्डलादेरपि विशेषणत्वे, तदानीं कुण्डलीत्येवमेव विशिष्टस्वरूपनिष्पत्तेरित्यर्थः । ____ तत्र गुणिदेशेनाऽभेदवृत्त्यसम्भवमुपपादयति-गुणिदेशस्य चेति । प्रतिगुणम्अस्तित्वादिप्रत्येकधर्ममाश्रित्य । तदभेदे-गुणानां भेदेऽपि गुणिदेशस्यैकस्यैव भावे । भिन्नार्थेति । यथा घटस्तित्वादिगुणानां भिन्नानामपि घटात्मकगुणिनो देशोऽभिन्न एव, तथा स एव पटादिगतास्तित्वादिगुणानामपि स्यादित्यर्थः ।
संसर्गेणाऽभेदवृत्तिं तत्राऽपाकरोति-संसर्गस्य चेति । संसर्गस्य अभेदसहिष्णुभेदलक्षणाविष्वग्भावस्य । प्रतिसंसर्गिभेदादिति । अन्यत्र संसर्गिभेदेन संसर्गभेददर्शनादत्राऽपि तथैव युक्तत्वादिति भावः । तदभेदे-संसर्गाभेदे । भावना सम्बन्धदर्शिताऽवसेया ।
तत्र शब्देनाऽभेदवृत्ति निराकरोति-शब्दस्येति । शब्दस्य-अस्तित्वादिगुणवाचकास्तित्वादिशब्दस्य, प्रतिविषयम् अस्तित्वादिगुणलक्षणवाच्यमाश्रित्य । वाच्यभेदेऽपि वाचकशब्दाभेदाभ्युपगमेऽनिष्टमापादयति-सर्वगुणानामिति ।
उक्तदिशा पर्यायार्थनयादेशात् कालादिभिरभेदवृत्त्यसम्भवे एकगुणेन सह तदन्यगुणानामभेदोपचारः क्रियते । उपचारश्च गर्दभादितो भिन्नेऽपि विशिष्टज्ञानविकलमनुष्यादौ गर्दभाद्यभेदस्य दृश्यते एवेत्युपसंहरति-कालादिभिरिति ।
___ विकलादेशनिर्वचने उक्तं भेदवृत्तिप्राधान्याद् भेदोपचाराद्वेति । तत्रापि कालादिभिरष्टभिर्गुणानां भेदवृत्तिः पर्यायनयप्राधान्यात् । तैः पुनः द्रव्यार्थनयादेशाद् भेदवृत्त्यसम्भावाद् भेदोपचारः क्रियते । तत्र पर्यायनयादेशे गुणादिभिरभेदवृत्त्यसम्भवे उपदर्शिता युक्तय एव भेदवृत्तिप्राधान्ये योजनीयाः । द्रव्यार्थिकनयादेशे गुणादिभिरभेदवृत्त्युपपादिका नीतिरेव भेदवृत्त्यसम्भवतो भेदोपचारे सङ्घटनीयेत्यतिदिशति
एवं भेदवृत्तितदुपचारावपि वाच्याविति ।
ये च स्यादस्त्येव १ स्यान्नास्त्येव २ स्यादवक्तव्यमेवेति ३ त्रयाणां सकलादेशत्वम्, स्यादस्त्येव स्यान्नास्त्येव चेत्यादिचतुर्णां विकलादेशत्वमामनन्ति, तेषां मते निरवयवार्थप्रतिपादकमखण्डार्थप्रतिपादकलक्षणं सकलादेशत्वम्, सावयवार्थप्रतिपादकं सखण्डार्थप्रतिपादकलक्षणं विकलादेशत्वमिति ।