________________
१९२
सटीकजैनतर्कभाषायां सम्बन्धिन आत्मरूपस्य च भिन्नत्वात्, अन्यथा तेषां भेदविरोधात्; स्वाश्रयस्याऽर्थस्याऽपि नानात्वात्, अन्यथा नानागुणश्रयत्वविरोधात्; सम्बन्धस्य च सम्बन्धिभेदेन भेददर्शनाद्, नानासम्बन्धिभिरेकत्रैकसम्बन्धाघटनात्; तैः क्रियमाणस्योपकारस्य च प्रतिनियतरूपस्याऽनेकत्वात्, अनेकैरुपकारिभिः क्रियमाणस्योपकारस्यैकस्य विरोधातः गुणिदेशस्य च प्रतिगुणं भेदात्, तदभेदे भिन्नार्थगुणानामपि गुणिदेशाभेदप्रसङ्गात्; संसर्गस्य च प्रतिसंसर्गि भेदात्, तदभेदे संसर्गिभेदविरोधात्; शब्दस्य प्रतिविषयं नानात्वात्, सर्वगुणानामेकशब्दवाच्यतायां सर्वार्थानामेकशब्दवाच्यतापत्तेरिति कालादिभिर्भिन्नात्मनामभेदोपचारः क्रियते ।
तत्र कालेनाऽभेदवृत्तेर्न सम्भव इत्याह-समेति । सम्भवे-समकालमेकत्र नानागुणानां सम्भवे, तदाश्रयस्य-नानागुणाधारस्य धर्मिणः । पर्यायनये गुणानां भिन्नत्वे विभिन्नगुणाश्रयस्य भिन्नत्वमेव । विरुद्धधर्माध्यासस्य भेदकत्वकल्पनापेक्षया विभिन्नधर्माध्यासस्य भेदकत्वमिति कल्पनैव लाघवाद् युक्तेति गुणानां भेदे तदाधारस्य तत्समानकालीनस्य भेदप्रसङ्गादित्यर्थः ।
पर्यायनये आत्मरूपेणाऽभेदवृत्त्यसम्भवमुपपादयति-नानागुणानामिति । अन्यथा नानागुणानां सम्बन्धिन आत्मरूपस्य तद्गुणत्वलक्षणस्याऽभिन्नत्वे, तेषां-गुणानाम् । तद्गुणत्वस्य सर्वत्राऽविशिष्टत्वाद् भिन्नत्वं न स्यादित्यनन्तधर्माणामभावेऽनन्तधर्मात्मकत्वमपि वस्तुनो वक्तुं न शक्य तेत्यर्थः ।।
गुणानां भिन्नानामाधारोऽपि विभिन्न एवेत्याधारलक्षणार्थेनाऽभेदवृत्तिरपि नाऽत्र घटते इत्याह-स्वाश्रयस्येति । स्वाश्रयस्य-गुणाश्रयस्य । अन्यथा-गुणाश्रयस्य भिन्नत्वाभावे । एकस्मिन् आश्रये एक एव गुण इति तत्र नियमेन नानागुणाश्रयत्वं भेदमन्तरेण न स्यादित्यर्थः ।
सम्बन्धेनाऽभेदवृत्त्यसम्भवं पर्यायनये दर्शयति-सम्बन्धस्य चेति । प्रतियोग्यनुयोगिभेदेन सम्बन्धभेदोऽन्यत्र दृश्यते । नहि भूतलघटयोर्यः संयोगः स एव पर्वतवक़्योरपि । तथाऽभ्युपगमे घटभूतलसंयोगोत्पत्तौ वह्निपर्वतसंयोगोऽप्युत्पद्येत, तद्विनाशे सोऽपि नश्येदिति प्रसङ्गो दुर्निवारः स्यात् । एवं नानाधर्मैः समं घटादिधर्मिणोऽपि नैकः सम्बन्धः, किन्तु तत्तद्धर्मप्रतियोगिको घटाद्यनुयोगिको भिन्न एव सम्बन्ध इति तथादर्शनतः कल्प्यते इत्यर्थः । नानासम्बन्धिभिः अस्तित्वनास्तित्वादिनानाधर्मैः समम्, एकत्र-घटाद्यात्मकैकर्मिणि, एकसम्बन्धाघटनात्-भेदविशिष्टाभेदात्मकाविष्वग्भावरूपसम्बन्धासम्भवात् ।
पर्यायनये उपकारेणाऽभेदवृत्त्यसम्भवं कथयति-तैः क्रियमाणस्येति । तैः अस्तित्वादिगुणैः, प्रतिनियतरूपस्य-स्वस्वानुरूपानुरक्तत्वकरणात्मकस्य, अस्तित्वप्रभव उपकार