________________
कालादिभिर्गुणानां भेदाभेदवृत्ती
१९१ गुणत्वमेव, आत्मरूपमिति सम्बध्यते । अर्थेनाऽभेदवृत्ति दर्शयति-य एव चाऽधार इति । स एव-द्रव्याख्य एव आधारः । सम्बन्धेनाऽभेदवृत्तिमुपदर्शयति-य एव चाऽविष्वग्भाव इति । अविष्वग्भावः कथञ्चित्तादात्म्यम् । स एव-अविष्वग्भाव एव सम्बन्धः । उपकारात्मनाऽभेदवृत्तिं निरूपयति-य एव चोपकार इति । स एव-स्वानुरक्तत्वकरणलक्षण एवोपकारः । गुणिदेशरूपेणाऽभेदवृत्ति दर्शयति-य एव गुणिन इति । स एव-क्षेत्रलक्षण एव गुणिनः सम्बन्धी देशः । संसर्गेणाऽभेदवृत्तिं निरूपयति-य एव चैकवस्त्वात्मनेति । स एव-तादृगूप एव संसर्गः । सम्बन्धसंसर्गयोः कः प्रतिविशेष इति जिज्ञासायामाह-गुणीभूतेति । यद्यप्यविष्वग्भाव एव सम्बन्धः, स एव च संसर्गः, तथापि तत्र भेदस्य गौणत्वेऽभेदस्य प्राधान्ये आस्थिते सति सम्बन्धत्वम्, तत्राऽभेदस्य गौणत्वे भेदस्य प्राधान्ये विवक्षिते सति संसर्गत्वमित्यनयोर्भेद इत्याशयः । शब्देनाऽभेदवृत्तिं भावयति-य एव चैकेति । स एव-अस्तीति शब्द एव । सर्वे सर्वार्थवाचका इति नियमादेकस्याऽपि शब्दस्य सर्वैरथैः सह वाच्यवाचकभावसम्बन्धोऽस्ति, तस्य व्यापकः कथञ्चित्तादात्म्यलक्षणसम्बन्ध इत्येवंदिशाऽपि शब्देनाऽभेदवृत्तिरुपपद्यते एवेति बोध्यम् ।
-- सम्बन्धसंसर्गयोः प्रतियोग्यनुयोगिभ्यामसम्बद्धयोर्न सम्बन्धत्वसंसर्गत्वे इति तयोः प्रतियोग्यनुयोगिभ्यां कस्यचित् सम्बन्धस्याऽऽवश्यकत्वे तद्व्यापकस्याऽपि कथञ्चित्तादात्म्यसम्बन्धस्य तत्राऽऽवश्यकत्वम्, निरुक्तसम्बन्धसंसर्गौ चाऽविशेषितौ सकलधर्मर्मिगतौ–इत्येषा दिगपि तद्द्वारकाभेदवृत्तौ भावनीया ।
अस्यां प्रक्रियायां पर्यायनयस्य गुणभावे द्रव्यार्थिकनयस्य सर्वत्राऽभेदमादिशतः प्राधान्यमिति तदवलम्बनेन कालादिभिरभेदवृत्तिप्राधान्यादित्युपदिश्यते इत्याह-पर्यायार्थिकेति।
यदा च पर्यायार्थिकनयस्यैव प्राधान्यं द्रव्यार्थिकनयस्य च गुणभावमवलम्ब्य कालादिभिरेकधर्मेण सह तदन्याशेषधर्माणां भेदद्वारा सकलादेशत्वं विवक्ष्यते तदा पर्यायार्थिकनये नाऽस्त्यभेदप्राधान्यमिति तदुपचारत एव यौगपद्येनाऽनन्तधर्मात्मकवस्तुप्रतिपादकत्वतः सकलादेशत्वसम्भव इत्युपवर्णयितुम्, कथं न तत्र कालादिभिरभेदसम्भव इत्याकाङ्क्षानिवर्तनायाऽऽह- .
द्रव्यार्थिकगुणभावेन पर्यायार्थिकप्राधान्ये तु न गुणानामभेदवृत्तिः सम्भवतिसमकालमेकत्र नानागुणानामसम्भवात्, सम्भवे वा तदाश्रयस्य भेदप्रसङ्गात्; नानागुणानां १. उपरि सम्बन्धसंसर्गयोः कथञ्चित्तादात्म्यरूपतां स्वीकृत्याऽभेदवृत्तिर्दशिता । अत्र तु तयोर्यत्किञ्चि
द्रूपत्वेऽप्यभेदः प्रदर्शितः।