________________
१९४
सटीकजैनतर्कभाषायां प्रतिभङ्गं सप्तभङ्ग्याः सकलादेशत्वे प्रतिभङ्गं प्रमाणवाक्यरूपा सप्तभङ्गी, तस्याः प्रतिभङ्गं विकलादेशत्वे प्रतिभङ्गं नयवाक्यरूपा । मतान्तरे आद्याः त्रयो भङ्गाः सकलादेशत्वात् प्रमाणवाक्यानि, तदवच्छेदेन सप्तभङ्ग्या अपि सकलादेशत्वात् प्रमाणवाक्यत्वम्, अन्त्याः चत्वारो भङ्गा विकलादेशत्वाद् नयवाक्यानि, तदवच्छेदेन सप्तभङ्ग्या अपि तथा ।
तत्र प्रथमभङ्गः संग्रहनयात् प्रवर्तते । द्वितीयभङ्गो व्यवहारात् । तृतीयभङ्गः ताभ्याम् । चतुर्थभङ्ग ऋजुसूत्राद्-युगपत्सत्त्वासत्त्वयोरादेशे सङ्ग्रहव्यवहारयोः तदविषयकत्वादसामर्थ्याद्, ऋजुसूत्रस्य तु तदविषयकत्वेऽपि संवृत्यैव तथाप्रतिपत्तिसामर्थ्यसम्भवात् । पञ्चमभङ्गस्य सङ्ग्रहर्जुसूत्राभ्यां प्रवृत्तिः । षष्ठभङ्गस्य व्यवहारर्जुसूत्राभ्यां प्रवृत्तिः । सप्तमभङ्गस्य तु सङ्ग्रहव्यवहारर्जुसूत्ररित्येवं सप्तभङ्ग्या नययोजना ज्ञेया ।
इति सप्तभङ्गीनिरूपणे आगमप्रमाणनिरूपणं परिपूर्णम् । परोक्षप्रमाणनिरूपणमुपसंहरतिपर्यवसितं परोक्षम्। पर्यवसितं-सम्पन्नम्, परिपूर्णमिति यावत् । प्रमाणनिरूपणमुपसंहरतिततश्च निरूपितः प्रमाणपदार्थः ।
प्रत्यक्षपरोक्षाभ्यां द्विविधं प्रमाणमिति प्रतिज्ञातम्, प्रत्यक्षपरोक्षयोश्च सप्रभेदयोः क्रमेण निरूपणे वृत्ते प्रमाणपदार्थोऽपि निरूपित एवेति ।