________________
हेतुप्रकाराः
क्रमेण तानुदाहरणतो भावयति यथेति । नाऽस्त्येव सर्वथा एकान्तः-अनेकान्तस्योपलम्भादित्यत्र अनेकान्तलक्षणो हेतुः प्रथमः । नाऽस्त्यस्य तत्त्वनिश्चयः-तत्र सन्देहादित्यत्र तत्त्वविषयकसन्देहलक्षणो हेतुद्वितीयः । नाऽस्त्यस्य क्रोधोपशान्तिःवदनविकारादेरित्यत्र वदनविकारलक्षणो हेतुः तृतीयः । नाऽस्त्यस्याऽसत्यं वचःरागाद्यकलङ्कितज्ञानकलितत्वादित्यत्र रागाद्यकलङ्कितज्ञानकलितत्वरूपो हेतुः चतुर्थः । नोद्गमिष्यन्ति मुहूर्तान्ते पुष्यतारा-रोहिण्युद्गमादित्यत्र रोहिण्युद्गमात्मको हेतुः पञ्चमः । नोदगात् मुहूर्तात् पूर्वं मृगशिर:-पूर्वफल्गुन्युदयादित्यत्र पूर्वफल्गुन्युदयात्मा हेतुः षष्ठः । नाऽस्त्यस्य मिथ्याज्ञान-सम्यग्दर्शनादित्यत्र सम्यग्ज्ञानस्वरूपो हेतुः सप्तमः । अन्ते इति शब्दः विरुद्धोपलब्धिहेतुप्रकारोपदर्शनपरिसमाप्तौ ।
___ क्रमेणोपदर्शितानां विरुद्धोपलब्धिहेतुप्रभेदानां सप्तानामपि हेतूनां क्रमेण प्रतिषेधस्वभावविरुद्धादिरूपतां भावयति
__ अत्राऽनेकान्तः प्रतिषेध्यस्यैकान्तस्य स्वभावतो विरुद्धः । तत्त्वसन्देहश्च प्रतिषेध्यतत्त्वनिश्चयविरुद्धतदनिश्चयव्याप्यः । वदनविकारादिश्च क्रोधोपशमविरुद्धतदनुपशमकार्यम्। रागाद्यकलङ्कितज्ञानकलितत्वं चाऽसत्यविरुद्धसत्यकारणम् । रोहिण्युद्गमश्च पुष्यतारोद्गमविरुद्धमृगशीर्षोदयपूर्वचरः । पूर्वफल्गुन्युदयश्च मृगशीर्षोदयविरुद्धमघोदयोत्तरचरः । सम्यग्दर्शनं च मिथ्याज्ञानविरुद्धसम्यग्ज्ञानसहचरमिति ।
तदनिश्चय-तत्त्वानिश्चय । तदनुपशम:-क्रोधानुपशमः । अन्यत् सर्वं स्पष्टम् । इति प्रतिषेधसाधकविरुद्धोपलब्धिविधिस्वरूपहेतुनिरूपणम् । प्रतिषेधस्वरूपहेतुप्रकारमुपदर्शयतिप्रतिषेधरूपोऽपि हेतुर्द्विविधः-विधिसाधकः प्रतिषेधसाधकश्चेति । विधिसाधकस्य प्रतिषेधस्वरूपहेतोः प्रकारानुपदर्शयति
आद्यो विरुद्धानुपलब्धिनामा विधेयविरुद्धकार्यकारणस्वभावव्यापकसहचरानुपलम्भभेदात् पञ्चधा ।
प्रतिषेधरूपहेतोः प्रथमो भेदो विधिसाधकप्रतिषेधरूपहेतुः । यथा विधिस्वरूपहेतोः प्रथमभेदो विधिसाधकोऽविरुद्धोपलब्धिनामा, तस्यैव द्वितीयभेदः प्रतिषेधसाधको विरुद्धोपलब्धिनामा; तथा प्रतिषेधरूपहेतोरपि प्रथमभेदो विधिसाधको विरुद्धानुपलब्धिनामा, तस्यैव द्वितीयभेदः प्रतिषेधसाधकोऽविरुद्धानुपलब्धिनामेत्यभिसन्धानेनोक्तम्-विरुद्धानुपलब्धिनामेति।