________________
१६६
सटीकजैनतर्कभाषायां गमकत्वमुपपादयति-रसो हीति । जैनमते पौद्गलिकानां यावतामेव नियमेन रूपरसस्पर्शगन्धवत्त्वमिति नियमेनेति । तदभावे-रूपाभावे, अनुपपद्यमानः असम्भवत्स्थितिकः, तद् गमयति-रूपमनुमापयति ।
रूपरसयोः परस्परस्वरूपपरित्यागेनोपलम्भाद् नैक्यमिति न रूपस्वभावत्वं रसस्य, समानकालीनत्वेनाऽनयोः पौर्वापर्याभावात् पौर्वापर्यनियतकार्यकारणभावोऽपि नेति स्वभावकार्यकारणेषु सहचरस्य नाऽन्तर्भाव इति पृथगेवाऽयं हेतुरित्याह-परस्परेति । अस्य-सहचरस्य ।
उदाहृतानां हेतूनां भावरूपत्वाद् भावसाधकत्वाच्च विधिसाधकविधिरूपत्वम्, विधेयेनाऽविरुद्धतयोपलभ्यमानत्वादेव चाऽविरुद्धोपलब्धिरूपत्वमन्यत्र गीयते इत्युपसंहरति
एतेषूदाहरणेषु भावरूपानेवाऽग्न्यादीन् साधयन्ति धूमादयो हेतवो भावरूपा एवेति विधिसाधकविधिरूपाः ते एवाऽविरुद्धोपलब्धय इत्युच्यन्ते ।
ते एव-पूर्वमुदाहृता धूमादिहेतव एव । इति विधिसाधकविधिहेतुषट्प्रकारोपवर्णनम् । अथ प्रतिषेधसाधकविधिस्वरूपहेतून् निरूपयति
द्वितीयस्तु निषेधसाधको विरुद्धोपलब्धिनामा । स च स्वभावविरुद्धतव्याप्याद्युपलब्धिभेदात् सप्तधा । यथा-नाऽस्त्येव सर्वथा एकान्तः-अनेकान्तस्योपलम्भात् । नाऽस्त्यस्य तत्त्वनिश्चयः-तत्र सन्देहात् । नाऽस्त्यस्य क्रोधोपशान्तिःवदनविकारादेः । नाऽस्त्यस्याऽसत्यं वचः-रागाद्यकलङ्कितज्ञानकलितत्वात् । नोद्गमिष्यन्ति मुहूर्तान्ते पुष्यतारा-रोहिण्युद्गमात् । नोदगाद् मुहूर्तात् पूर्वं मृगशिर:पूर्वफल्गुन्युदयात् । नाऽस्त्यस्य मिथ्याज्ञान-सम्यग्दर्शनादिति ।
द्वितीयः-प्रतिषेधसाधकविधिस्वरूपहेतुः । प्रथमस्याऽविरुद्धोपलब्धिसंज्ञकत्वे निगमिते द्वितीयस्य विरुद्धोपलब्धिसंज्ञकत्वमागतमेव, तथापि स्पष्टप्रतिपत्तये उक्तं-विरुद्धोपलब्धीति ।
प्रतिषेधसाधकविधिस्वरूपहेतुप्रकारानुपदर्शयति-स चेति । विरुद्धोपलब्धिनामको निषेधसाधको विधिस्वरूपहेतुश्चेत्यर्थः । स्वभावेति । १. निषेध्यस्वभावविरुद्धोपलब्धिः २. निषेध्यविरुद्धव्याप्योपलब्धिः ३. निषेध्यविरुद्धकार्योपलब्धिः ४. निषेध्यविरुद्धकारणोपलब्धिः ५. निषेध्यविरुद्धपूर्वचरोपलब्धिः ६. निषेध्यविरुद्धोत्तरचरोपलब्धिः ७. निषेध्यविरुद्धसहचरोपलब्धिः-इत्येवं सप्तप्रकारो निषेधसाधको विरुद्धोपलब्धिनामको विधिस्वरूपो हेतुरित्यर्थः ।