________________
हेतुप्रकाराः
१६५
=
च-वृष्टिकारणानुकूलवाय्वादिसमवधानं च निश्चेतुं शक्यते - 'वृष्टिप्रतिबन्धकः कोऽपि इदानीं नाऽस्ति, वृष्ट्यनुकूलवाय्वादिसमवधानं चाऽस्मिन् मेघविशेषे वर्त्तते' इत्येवं निश्चयो लिङ्गविशेषादिना कर्तुं शक्यते, तस्यैव तादृशमेघविशेषादेरेव, कारणस्य वृष्ट्यादिकारणस्य, कार्यानुमापकत्वात्-वृष्ट्यादिकार्यानुमापकत्वात् ।
विधिसाधकं तुरीयं पूर्वचरात्मकविधिरूपहेतुं निरूपयति
कश्चित् पूर्वचरः, यथा - उदेष्यति शकटं- कृतिकोदयान्यथानुपपत्तेरित्यत्र कृत्तिकोदयानन्तरं मुहूर्त्तान्ते नियमेन शकटोदयो जायते इति कृत्तिकोदयः पूर्वचरो हेतुः शकटोदयं गमयति ।
उदाहरति-यथेति । शकटं- रोहिणीनक्षत्रम् । उदेष्यति - मुहूर्त्तान्ते उदयं प्राप्स्यति । अन्यत् स्पष्टम् ।
विधिसाधकं पञ्चममुत्तरचरात्मकविधिरूपहेतुं प्ररूपयति
कश्चिदुत्तरचरः, यथोदगाद्भरणिः प्राक्, कृतिकोदयादित्यत्र कृत्तिकोदयः । कृत्तिकोदयो हि भरण्युदयोत्तरचरः तं गमयतीति कालव्यवधानेनाऽनयोः कार्यकारणाभ्यां भेदः ।
तं= भरण्युदयम् । कार्यकारणयोरव्यवधाने सत्येव कार्यकारणभावः । पूर्वचरोत्तरचरयोस्तु मुहूर्त्तात्मककालव्यवधानाद् न कार्यकारणभाव इति पूर्वचरस्य न कारणहेतावन्तर्भावः, उत्तरचरस्य च कार्यहेतावन्तर्भाव इत्यनयोः प्रत्येकं पृथगेव हेतुत्वमित्याह- कालेति । अनयो:पूर्वचरोत्तरचरयोः । कार्यकारणाभ्यां भेद इति । समासेऽल्पस्वरस्य पूर्वनिपात इति नियमबलादत्र कार्यपदस्य पूर्वमुपादानम् । अन्वयस्तु पूर्वचरस्य कारणाद् भेदः, उत्तरचरस्य कार्याद् भेद इति ।
विधिसाधकं षष्ठं सहचरात्मकविधिस्वरूपहेतुं निरूपयति
कश्चित् सहचरः, यथा - मातुलिङ्गं-रूपवद् भवितुमर्हति - रसवत्तान्यथानुपपत्तेरित्यत्र रसः । रसो हि नियमेन रूपसहचरितः, तदभावेऽनुपपद्यमानः तद् गमयति । परस्परस्वरूपपरित्यागोपलम्भ - पौर्वापर्याभावाभ्यां स्वभावकार्यकारणेभ्योऽस्य भेदः ।
मातुलिङ्गं- 'बिजोरा' इति लोके प्रसिद्धं फलम् । तत् फलमन्धकारावृतेऽन्तर्गृहकोणे उपभुञ्जानः पुमान् 'मातुलिङ्गं-रूपवद् भवितुमर्हति - रसवत्तान्यथानुपपत्ते 'रित्यनुमिनोति । तदानीमास्वाद्यमानाद् रसविशेषाद् योग्यमपि तत्रस्थं रूपविशेषमालोकसंयोगाद्यात्मकचाक्षुषप्रत्यक्षकारणाभावादप्रत्यक्षमित्यतोऽनुमिनोति । तत्र रसो विधिरूपो हेतू रूपस्य सहचरः । तस्य