________________
१६४
सटीकजैनतर्कभाषायां मतिपतेत् वृक्षसामग्री वाऽतिपत्य जायेत तर्हि स्वस्वरूपमेवाऽतिपतेत् स्वसामग्री वाऽतिपत्य जायेतेति विपक्षबाधकानिष्टप्रसङ्गतः तादात्म्येन वृक्षव्याप्यतया निर्णीतस्य शिशपालक्षणस्वभावहेतोः कार्यादिभिन्नत्वाद् व्याप्यहेतावेवाऽन्तर्भाव इति न तमुपादाय विधिसाधकविधिहेतोः सप्तविधत्वप्रसङ्ग इत्यर्थः ।
विधिसाधकं द्वितीयं कार्यरूपविधिहेतुं दर्शयति
कश्चित् कार्यरूपः, यथा-पर्वतोऽयमग्निमान् धूमवत्त्वान्यथानुपपत्तेरित्यत्र धूमः । धूमो ह्यग्नेः कार्यभूतः तदभावेऽनुपपद्यमानोऽग्नि गमयति ।
___धूम इति । कार्यरूपो विधिस्वरूपो धूमहेतुरित्यर्थः । ग्रमकत्वे सत्येव हेतुत्वमिति तद् भावयति-धूमो हीति । हि-यतः । तदभावे-अग्न्यात्मकस्वकारणाभावे ।
विधिसाधकं कारणात्मकविधिरूपं तृतीयं हेतुं निरूपयति
कश्चित् कारणरूपः, यथा-वृष्टिर्भविष्यति-विशिष्टमेघान्यथानुपपत्तेरित्यत्र मेघविशेषः । स हि वर्षस्य कारणं स्वकार्यभूतं वर्ष गमयति । ननु कार्याभावेऽपि सम्भवत् कारणं न कार्यानुमापकम्, अत एव न वह्निधूमं गमयतीति चेत्, सत्यम्, यस्मिन् सामर्थ्याप्रतिबन्धः कारणान्तरसाकल्यं च निश्चेतुं शक्यते, तस्यैव कारणस्य कार्यानुमापकत्वात् ।
विशिष्टेति । अत्यन्तनैल्योन्नतत्वादिविशिष्टेत्यर्थः । मेघविशेष इति । अत्यन्तनैल्योन्नतत्वादिविशिष्टमेघः कारणात्मकविधिरूपो हेतुरित्यर्थः । भावयति-स हीति । तादृशमेघविशेषो यत इत्यर्थः ।
अत्र कारणस्य कार्यसाधकत्वमसहमानः परः शङ्कते-नन्विति । कार्याभावेऽपि सम्भवत् कारणमित्यनेन कार्यरूपसाध्याभाववद्वृत्तित्वादनैकान्तिकत्वं कारणहेतोर्दर्शितम् । अत एव-कारणस्य कार्याभाववद्वृत्तित्वेनाऽनैकान्तिकत्वाद् कार्याननुमापकत्वादेव । सर्वस्य कारणस्य कार्यानुमापकत्वाभ्युपगमे भवतः शङ्का सत्यैव । परं नैवमभ्युपगम्यते, किन्तु निश्चितकारणान्तरसाकल्याप्रतिबद्धसामर्थ्यस्य कारणविशेषस्यैव हेतुत्वमभ्युपेयते । तस्य कार्याव्यभिचारित्वेन कार्यनुमापकत्वाभ्युपगमे न कश्चिद् दोष इति समाधत्ते-सत्यमिति । यस्मिन्-घनोन्नतत्वादिविशिष्टे मेघविशेषलक्षणवृष्टिकारणे, सामर्थ्याप्रतिबन्धः= वृष्टिलक्षणकार्यजननसामर्थ्यस्य न केनचित् प्रतिकूलप्रबलवाय्वभिघातादिलक्षणप्रतिबन्धकेन प्रतिबन्धः, कारणान्तरसाकल्यं १. यस्मिन् कारणेऽप्रतिबद्धं सामर्थ्य सकलकारणान्तरसमवधानं च भवति तत् कारणमवश्यं फलोपधायकं __ भवति । अत एवमुच्यते-निश्चिते अप्रतिबद्धसामर्थ्य-कारणान्तरसाकल्ये यत्र तद् निश्चित० ।