________________
हेतुप्रकाराः
वाक्ये विज्ञेये" इति ।
हेतुप्रकारानुपदर्शयति—
१६३
स चाऽयं द्विविधः - विधिरूपः प्रतिषेधरूपश्च । तत्र विधिरूपो द्विविध:विधिसाधकः प्रतिषेधसाधकश्च ।
स चाऽयमिति । अनन्तरनिरूपितस्वरूपो हेतुः पुनरित्यर्थः । हेतोर्यथा साध्योपपत्त्यन्यथानुपपत्तिभ्यां प्रयोगे द्वैविध्यं तथा प्रकारेऽपि द्वैविध्यमित्यभिधानाय पुनरर्थकः चकारः । विधिरूपः=भावरूपः, प्रतिषेधरूपः - अभावरूपः । प्रथमोद्दिष्टत्वाद् विधिरूपहेतुं विभजतेतत्रेति । विधिरूपनिषेधरूपहेत्वोर्मध्ये इत्यर्थः । विधिसाधकः = भावरूपसाध्यसाधकः, प्रतिषेधसाधक:- अभावरूपसाध्यसाधकः ।
विधिरूपसाध्यसाधकस्य विधिरूपहेतोः प्रकारानुपदर्शयति
तत्राऽऽद्यः षोढा । तद् यथा - कश्चिद् व्याप्य एव - यथा शब्दोऽनित्यः-प्रयत्ननान्तरीयकत्वादिति । यद्यपि व्याप्यो हेतुः सर्व एव, तथापि कार्याद्यनात्मव्याप्यस्याऽत्र ग्रहणाद् भेदः । वृक्षः शिशपाया इत्यादेरप्यत्रैवाऽन्तर्भावः ।
तत्र-विधिसाधकप्रतिषेधसाधकविधिरूपहेत्वोर्मध्ये, आद्यः - विधिसाधको विधिरूपो हेतुः, षोढा=षट्प्रकारः । षड्विधत्वं च व्याप्य - कार्य-कारण- पूर्वचरो - त्तरचर - सहचरभेदाद् ज्ञेयम् । तान् प्रकारान् क्रमेण निदर्शनोपदर्शनद्वारा भावयति - तद्यथेति ।
विधिसाधकं विधेयव्याप्यं भावरूपहेतुमुदाहरति - यथेति । शब्देऽनित्यत्वलक्षणभावधर्मो भावात्मकेन प्रयत्ननान्तरीयकत्वेन हेतुना साध्यते । प्रयत्ननान्तरीयकत्वं च नाऽनित्यत्वस्य कार्यकारणादिरूपम्, किन्तु यत्र यत्र प्रयत्ननान्तरीयकत्वं वर्त्तते तत्राऽनित्यत्वमपि वर्त्तते इत्यतः प्रयत्ननान्तरीयकत्वमनित्यत्वस्य व्याप्यमिति ।
ननु साध्यहेत्वोर्व्याप्यव्यापकभावे सत्येव व्याप्तिग्रहणतः सर्वस्याऽनुमानस्योद्भव इति हेतुमात्रस्यैव साध्यव्याप्यरूपतेति प्रथमभेदे एव सर्वेऽपि भेदा सन्निविष्टा इति कार्यकारणादिहेतूनां प्रकारान्तरत्वं न स्यादित्यत आह- यद्यपीति । कार्याद्यनात्मकव्याप्यस्यैव व्याप्यत्वेन व्याप्यात्मकहेतुतया विवक्षितत्वमिति कार्यादिहेतूनां न व्याप्यहेतावन्तर्भाव इत्यर्थः ।
एवं सति कार्यादिवत् स्वभावहेतुरप्यधिको वक्तव्यो भवति तथा च विधिसाधकविधिहेतोः सप्तविधत्वं स्यादित्यत आह-वृक्ष इति । वृक्षस्वभावा शिंशपा यदि वृक्षस्वरूप
' तथापि कार्यानात्म० ' - स्या० र० पृ० ५९४. पं० २३. पृ० ५९५. पं० ६