________________
१६२
सटीकजैनतर्कभाषायां यस्तु प्रतिबन्धेति । प्रमाणस्येति । स्मृत्यर्थकधातुयोगे कर्मणि षष्ठी, षष्ठ्यन्तविशेष्यवाचकपदसमभिव्याहृतस्य विशेषणवाचक प्रतिबन्धग्राहिण'इत्यस्याऽपि षष्ठ्यन्तत्वम् । तथा च यो मन्दमतिः प्रतिवादी दृष्टान्तवचनातिरिक्तेन न केनचित् प्रतिबन्धग्राहितेप्रमाणविषयकस्मरणवानित्यर्थः । तं प्रति-तं प्रतिवादिनमुद्दिश्य । दृष्टान्तोऽपीति । प्रयोज्य इत्यनुवर्तते, अपिना पक्षहेत्वोर्ग्रहणम्, तथा च तं प्रतिवादिनं प्रति पक्षहेतुदृष्टान्तवचनानि प्रयोक्तव्यानीत्यर्थः ।।
अतिमन्दमतिप्रतिवादिनमधिकृत्याऽऽह-यस्त्विति । दार्टान्तिके पक्षे । उपनयोऽपीति । अत्राऽपि प्रयोज्य इत्यस्य सम्बन्धः, अपिना पक्षहेतुदृष्टान्तवचनानामुपग्रहः, तथा च तं प्रति पक्षहेतुदृष्टान्तोपनयाः प्रयोक्तव्या इत्यर्थः ।। ____ अतिमन्दतममतिमधिकरोति-एवमपीति । पक्षादिवचनचतुष्टयप्रयोगेऽपीत्यर्थः । साकाक्षं प्रति एतावता किं जातमित्याकाङ्क्षाशालिनं प्रतिवादिनं प्रति । चः समुच्चये, स च निगमनमित्यनन्तरं योज्यः । समुच्चयश्च प्रतिज्ञाहेतूदाहरणोपनयानाम् । तथा च तं प्रति प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चाऽप्यवयवाः प्रयोक्तव्याः । - नैतावता नैयायिकेनाऽस्मदभिमतपञ्चावयवात्मकपरार्थानुमानसिद्धिरिति सन्तोष्टव्यंततोऽधिकानामप्यवयवानां प्रतिवादिविशेषमधिकृत्याऽवश्यं प्रयोक्तव्यत्वादित्याह-पक्षादीति । आदिपदाद् हेतुदृष्टान्तोपनयनिगमनानां ग्रहणम् । तथा च यः पक्षस्वरूपे विप्रतिपन्नः, तं प्रति पक्षशुद्धिरपि । यस्तु हेतुस्वरूपे विप्रतिपद्यते, तं प्रति पक्षशुद्धिहेतुशुद्धी द्वे अपि । यस्तु दृष्टान्तस्वरूपेऽपि विवादग्रहिलः, तं प्रति पक्षहेतुदृष्टान्तशुद्धयः तिस्रोऽपि । यस्तु उपनयस्वरूपेऽपि विवादमाविष्करोति, तं प्रति पक्षहेतुदृष्टान्तोपनयशुद्धयः चतस्रोऽपि । यस्तु निगमनस्वरूपेऽपि विवादाचान्तमतिः, तं प्रति पक्षहेतुदृष्टान्तोपनयनिगमनशुद्धयः पञ्चाऽपि प्रयोक्तव्याः । अपिना पक्षादीनां पञ्चानामुपग्रहः । तथा च यद् निष्पन्नं तद् निगमयतिसोऽयमिति । दशावयव इति । पञ्च प्रतिज्ञादयः, पञ्च पक्षशुद्ध्यादयः, तेषां मेलनेन दशावयव इत्यर्थः ।
___ पक्षशुद्धयादिकं च स्याद्वादरत्नाकरे व्यावर्णितम् । तथा च तद्ग्रन्थः-"तत्र वक्ष्यमाणप्रतीतसाध्यधर्मविशेषणत्वादिपक्षदोषपरिहारादिः पक्षशुद्धिः । अभिधास्यमानासिद्ध्यादिहेत्वाभासोद्धरणं हेतुशुद्धिः । प्रतिपादयिष्यमाणसाध्यविकलत्वादिदृष्टान्तदूषणपरिहरणं दृष्टान्तशुद्धिः । उपनयनिगमनयोस्तु शुद्धी प्रमादान्यथाकृतयोः तयोर्वक्ष्यमाणतत्स्वरूपेण व्यवस्थापके
१. स्मृत्यर्थदयेशः ॥ (सिद्ध० २-२-११) २. व्याप्तिग्राहकतर्केत्यर्थः ।