________________
परार्थानुमानावयवाः
१६१ दृष्टान्तोऽपि । यस्तु दार्टान्तिके हेतुं योजयितुं न जानीते, तं प्रत्युपनयोऽपि । एवमपि साकाक्षं प्रति च निगमनम् । पक्षादिस्वरूपविप्रतिपत्तिमन्तं प्रति च पक्षशुद्धयादिकमपीति सोऽयं दशावयवो हेतुः पर्यवस्यति ।
__ अतिव्युत्पन्न प्रति हेतुप्रयोगमात्रस्य, तदन्यव्युत्पन्न प्रति पक्षहेतूभयप्रयोगस्य, मन्दमतिप्रतिवादिव्युत्पादनार्थं दृष्टान्तादिप्रयोगस्योपयोगं भावयति-तथाहीति । निर्णीतपक्षः=निर्णीत: पक्षः साध्यविशिष्टो धर्मी येन सः । दृष्टान्तस्मायेति । दृष्टान्तवचनेन स्मृतिविषयः कर्त्तव्यो यः प्रतिबन्धः, तस्य ग्राहकं यत् तर्कात्मकं प्रमाणम्, तस्य स्मरणे यो निपुणः दृष्टान्तवचनमन्तरेणाऽपि प्रतिबन्धग्राहकतर्कप्रमाणं स्मर्तुं समर्थ इत्यर्थः । अपरेति । उपनयनिगमनलक्षणावयवयोः अभ्यूहने स्वयं तत्स्वरूपकल्पने यः समर्थः, 'भवितव्यमत्र ईदृशेनोपनयेन ईदृशेन च निगमनेने'त्येवंस्वरूपाभ्यूहने समर्थ इत्यर्थः । तथा च-साध्यविशिष्टधर्मिविशेषप्रतिपत्तिलक्षणप्रयोजनस्य क्षयोपशमविशेषादेव भावात् प्रतिज्ञोपन्यासस्य, व्याप्तिग्राहकतर्कस्मरणलक्षणप्रयोजनस्य कारणान्तरादेव सम्पन्नत्वाद् दृष्टान्तोपन्यासस्य, उपनयनिगमनयोः स्वयमभ्यूहनात् तदुभयोपन्यासस्य चाऽनुपयोगे व्यवस्थिते, तं प्रति=निरुक्तप्रतिवादिनं प्रति, हेतुरेव प्रयोज्य: हेतुवचनमात्रं प्रयोक्तव्यम् ।
उक्तप्रतिवाद्यपेक्षया किञ्चिन्यूनव्युत्पत्तिमन्तं प्रतिवादिनं प्रति पक्षहेतुवचनद्वयस्य प्रयोक्तव्यत्वमनुशास्ति-यस्य त्विति । नाऽद्याऽपि पक्षनिर्णय इति । प्रारब्धकथातः प्रागव्यवहितपूर्वकाले साधनीयसाध्यविशिष्टधर्मिविशेषनिर्णयो नाऽस्तीत्यर्थः । तेनैतत्कथानुपयुक्तसमये यत्किञ्चिद्धर्मविशिष्टधमिसाधनावसरे च तद्धर्मविशिष्टधमिनिर्णयेऽपि न क्षतिः । तं प्रति तं प्रतिवादिनमुद्दिश्य । पक्षोऽपीति । प्रयोज्य इति सम्बद्ध्यते । अपिना हेतोः सङ्ग्रहः, पक्षहेतू प्रयोज्यावित्यर्थः ।
मन्दमतिरपि मन्दातिमन्दातिमन्दतममतिभेदेन त्रिविधः । तत्र प्रथममधिकृत्याऽऽह
'पक्षशुद्धयादिकमपि'-"तत्र वक्ष्यमाणप्रतीतसाध्यधर्मविशेषणत्वादिपक्षदोषपरिहारादिः पक्षशुद्धिः । अभिधास्यमानाऽसिद्धादिहेत्वाभासोद्धरणं हेतुशुद्धिः । प्रतिपादयिष्यमाणसाध्यविकलत्वादिदृष्टान्तदूषणपरिहरणं दृष्टान्तशुद्धिः । उपनयनिगमनयोस्तु शुद्धी प्रमादादन्यथाकृतयोः तयोर्वक्ष्यमाणतत्स्वरूपेण व्यवस्थापके वाक्ये विज्ञेये ।"-स्या० र० पृ० ५६५ ।
१. यदा यद्धर्मविशिष्टयद्धर्मिविषयकवाद आरब्धस्तदा तद्धर्मविशिष्टतद्धर्मिविषयकनिर्णयाभावो ग्रहीतव्यः । तेन
तदा तद्भिन्नधर्मविशिष्टतद्धर्मिविषयकनिर्णये, तद्भिन्नकाले तद्धर्मविशिष्टतद्धर्मिविषयकनिर्णये च सत्यपि न क्षतिः ।