________________
१६०
सटीकजैनतर्कभाषायां यतः स्वाभीष्टसाध्यप्रतिपत्तिर्भवति तदेवाऽभिधातव्यम्, पक्षहेत्वभिधानतः सा भवति, ततः तस्यैव पप्रतिपत्त्यङ्गत्वादभिधानं युक्तमित्याह-पक्षहेतुवचनादेवेति ।
ननु व्याप्तिग्रहार्थं तत्स्मरणार्थ वा दृष्टान्तवचनस्याऽप्यावश्यकता-व्याप्तिरूपसाध्यहेतुसम्बन्धस्मरणमन्तरेणाऽनुमानात्मकपरप्रतिपत्तेरनुदयादित्यत आह-प्रतिबन्धस्येति । तत्स्मरणस्याऽपि-प्रतिबन्धस्मरणस्याऽपि ।
____पक्षवचनरूपप्रतिज्ञया साध्यस्य, हेतुवचनतो हेतोश्च ज्ञाने सति, पूर्वं गृहीततदुभयव्याप्तिरूपसम्बन्धस्य प्रतिवादिनः सम्बन्धिद्वयज्ञानत एव तत्सम्बन्धस्मरणस्य सम्भवेन तदर्थं दृष्टान्तवचनोपन्यासस्याऽनावश्यकत्वम् । पूर्वमगृहीतव्याप्तिकस्य तु प्रतिवादिनो, दृष्टान्तेऽपि पूर्व व्याप्तेरग्रहणेन, तदुपन्यासेऽपि-'कथमत्राऽपि हेतुसत्त्वेऽवश्यसाध्यसत्त्वम्, येनाऽहमत्र निरुक्तसाध्यसाधनयोर्व्याप्तिमवधारयामी'ति प्रतिवादिजिज्ञासाया अनुपशान्तेः, तदुपशमनार्थं प्रकृतस्य हेतोः प्रकृतेन साध्येन सहाऽविनाभावस्य साधनरूपसमर्थनं तयोः कार्यकारणभावतादात्म्यादिप्रतिबन्धग्राहकप्रमाणतः प्रतिवादिनं प्रति वादिनाऽवश्यमेव कर्त्तव्यमिति दृष्टान्तानुपन्यासेऽपि उक्तसमर्थनत एव व्याप्तिग्रहणतः साध्यप्रतिपत्तिसम्भवे तदनङ्गस्य दृष्टान्तवचनस्योपन्यासोऽनावश्यक इत्याह
असमर्थितस्य' दृष्टान्तादेः प्रतिपत्त्यनङ्गत्वात् तत्समर्थनेनैवाऽन्यथासिद्धेश्च । समर्थनं हि हेतोरसिद्धत्वादिदोषान् निराकृत्य स्वसाध्येनाऽविनाभावसाधनम् । तत एव च परप्रतीत्युपपत्तौ किमपरप्रयासेनेति ?
असमर्थितस्य-साध्यहेत्वोरविनाभावावच्छेदकतयाऽसाधितस्य । तत्समर्थनेनैव-हेतोः स्वसाध्येन सहाऽविनाभावसाधनेनैव । अन्यथासिद्धेश्च-दृष्टान्तोपनयनिगमनवचनोपन्यासस्याऽन्यथासिद्धेश्च । किं समर्थनमित्याकाङ्क्षायामाह-समर्थनं हीति । तत एव-निरुक्तसमर्थनत एव।
तत् किं दृष्टान्तादिवचनं कमपि प्रतिवादिनं प्रति न प्रयोक्तव्यमेव ? तथा सत्येवमभ्युपगच्छतः स्याद्वादिन एकान्तवादाभ्युपगमादनेकान्तवादव्याकोप इत्याह
मन्दमतीन् तु व्युत्पादयितुं दृष्टान्तादिप्रयोगोऽप्युपयुज्यते । तथाहि-यः खलु क्षयोपशमविशेषादेव निर्णीतपक्षो दृष्टान्तस्मार्यप्रतिबन्धग्राहकप्रमाणस्मरणनिपुणोऽपरावयवाभ्यूहनसमर्थश्च भवति, तं प्रति हेतुरेव प्रयोज्यः । यस्य तु नाऽद्याऽपि पक्षनिर्णयः, तं प्रति पक्षोऽपि । यस्तु प्रतिबन्धग्राहिणः प्रमाणस्य न स्मरति, तं प्रति १. हेतोरिति शेषः । अत्र 'असमर्थितस्य' इत्यस्य व्याख्यानं 'हेतो'रित्यन्तर्भाव्यैव कृतम् ।