________________
सटीकजैनतर्कभाषायां
विधेयविरुद्धेति । १. विधेयविरुद्धकार्यानुपलम्भः २. विधेयविरुद्धकारणानुपलम्भः ३. विधेयविरुद्धस्वभावानुपलम्भः ४ विधेयविरुद्धव्यापकानुपलम्भ: ५. विधेयविरुद्धसहचरानुपलम्भः–इत्येवं भेदाद् विधिसाधकः प्रतिषेधलक्षणो विरुद्धानुपलब्धिसंज्ञको हेतुः पञ्चप्रकार इत्यर्थः ।
१६८
क्रमेणैषामुदाहरणान्युपदर्शयति-—
यथा - अस्त्यत्र रोगातिशयः - नीरोगव्यापारानुपलब्धेः । विद्यतेऽत्र कष्टम् - इष्टसंयोगाभावात् । वस्तुजातमनेकान्तात्मकम्-एकान्तस्वभावानुपलम्भात् । अस्त्यत्रच्छाया - औष्ण्यानुपलब्धेः । अस्त्यस्य मिथ्याज्ञानं - सम्यग्दर्शनानुपलब्धेरिति ।
अस्त्यत्र रोगातिशयो - नीरोगव्यापारानुपलब्धेरित्यत्र विधेयः = साध्यो रोगातिशयः, तस्य विरुद्धं नैरुज्यम्, तस्य कार्यं नीरोगपुरुषकर्तृकसोत्साहगमनागमनादिक्रियालक्षणव्यापारः, तस्याऽनुपलब्धिः=तदभावो हेतुरत्र भवति विधेयविरुद्धकार्यानुपलम्भात्मा प्रथमः । विद्यतेऽत्र कष्टम् - इष्टसंयोगाभावादित्यत्र विधेयं कष्टं = दु:खम्, तद्विरुद्धं सुखम्, तस्य कारणमिष्टस्य प्रियमित्रादेः संयोगः, तस्याऽनुपलब्धिः = अभावो हेतुर्भवति विधेयविरुद्धकारणानुपलम्भात्मा द्वितीयः । वस्तुजातमनेकान्तात्मकम् - एकान्तस्वभावानुपलम्भादित्यत्र विधेयम् अनेकान्तात्मकत्वम्, तद्विरुद्धस्वभावः = एकान्तस्वभावः, तस्याऽनुपलम्भोऽभावो भवति विधेयविरुद्धस्वभावानुपलम्भात्मा तृतीयः । अस्त्यत्रच्छाया - औष्ण्यानुपलब्धेरित्यत्र विधेयीभूता छाया, तद्विरुद्ध आतपः, तद्व्यापकमौष्ण्यम्, तस्याऽनुपलम्भोऽभावो भवति विधेयविरुद्धव्यापकानुपलम्भात्मा चतुर्थः । अस्त्यस्य मिथ्याज्ञानं - सम्यग्दर्शनानुपलब्धेरित्यत्र विधेयं मिथ्याज्ञानम्, तस्य विरुद्धं सम्यगज्ञानम्, तत्सहचरं सम्यग्दर्शनम्, तस्याऽनुपलम्भोऽभावो भवति विधेयविरुद्धसहचरानुपलम्भात्मा पञ्चमः ।
इति विधिसाधकविरुद्धानुपलब्धिसंज्ञकप्रतिषेधरूपहेतुनिरूपणम् । प्रतिषेधसाधकाविरुद्धानुपलब्धिसंज्ञकप्रतिषेधरूपहेतुप्रकारानुपदर्शयति
द्वितीयोऽविरुद्धानुपलब्धिनामा प्रतिषेध्याविरुद्धस्वभावव्यापककार्यकारणपूर्वचरोत्तरचरसहचरानुपलब्धिभेदात् सप्तधा ।
१. प्रतिषेध्याविरुद्धस्वभावानुपलब्धिः २. प्रतिषेध्याविरुद्धव्यापकानुपलब्धिः ३. प्रतिषेध्याविरुद्धकार्यानुपलब्धिः ४. प्रतिषेध्याविरुद्धकारणानुपलब्धिः ५. प्रतिषेध्याविरुद्धपूर्वचरानुपलब्धिः ६. प्रतिषेध्याविरुद्धोत्तरचरानुपलब्धिः ७. प्रतिषेध्याविरुद्धसहचरानुपलब्धिःइत्येवंभेदात् सप्तप्रकारकोऽविरुद्धानुपलब्धिसंज्ञकः प्रतिषेधसाधकः प्रतिषेधरूपो हेतुरित्यर्थः ।