________________
१५७
परार्थानुमानसम्बन्धिमतान्तरखण्डनम् तद्-अनेकत्वव्याप्यस्याऽनेकवृत्तित्वस्य निवृत्तेः सामान्येऽभावस्य । मौलहेतुपरिकरत्वेनेति । 'यद् अनेकवृत्ति तद् अनेकम्, अनेकवृत्ति च सामान्यम्, तस्मादनेक'मिति स्वतन्त्रस्य विपर्ययानुमानस्य हेतुत्वेन मौलहेतुरनेकवृत्तित्वम्, तस्य परिकरत्वेन-व्यतिरेकव्याप्तिरूपतयाऽङ्गत्वेन-अन्वयव्याप्तिवद् व्यतिरेकव्याप्तेरपि साधनाङ्गत्वात्, यथा 'पर्वतो-वह्निमान्धूमा'दित्यत्र 'यो यो धूमवान् स स वह्निमा'नित्यन्वयव्याप्तिवद् 'यो वढ्यभाववान् स धूमाभाववा'निति व्यतिरेकव्याप्सिरपि साधनाङ्गम् । एवं च-प्रसङ्गोपन्यासस्याऽपि नैयायिक प्रति यो जैनेन क्रियते 'यत् सर्वथैकं तद् नाऽनेकत्र सम्बध्यते, तथा च सामान्य'मिति प्रसङ्गोपन्यासः, तस्याऽपि, न्याय्यत्वा=न्यायादनपेतत्वाद्, युक्तत्वादिति यावत् ।।
नन्वेवं बौद्धं प्रति 'बुद्धिरचेतना-उत्पत्तिमत्वा'दिति साङ्ख्यानुमानमपि प्रसङ्गविपर्ययपर्यवसाय्येवाऽस्तु । यतः तत्राऽपि 'बुद्धिर्यदि चेतना स्याद्, उत्पत्तिमती न स्या'दित्यापादनाङ्गस्य 'यत् चेतनं न तद् उत्पत्तिमत्, चेतना च बुद्धि'रित्यवयवद्वयात्मक प्रसङ्गसाधनस्याऽस्त्येव सम्भवः । बुद्धरुत्पत्तिमत्त्वाभावश्च न परस्येष्टः, ततो विपर्ययः-'बुद्धिरचेतना-उत्पत्तिमत्वा'दिति सम्भवतीत्यत आह
बुद्धिरचेतनेत्यादौ च प्रसङ्गविपर्ययहेतोर्व्याप्तिसिद्धिनिबन्धनस्य विरुद्धधर्माध्यासस्य विपक्षबाधकप्रमाणस्याऽनुपस्थापनात् प्रसङ्गस्याऽप्यन्याय्यत्वादिति वदन्ति।
उक्तावतरणदिशा मौलहेतुरुत्पत्तिमत्त्वमेवाऽऽयातम्, तच्च न साङ्ख्यस्य स्वमतसिद्धम्, अन्यागमप्रसिद्धं त्वप्रसिद्धकल्पमेवेति न तथोपन्यासो युक्त इति दोषो न व्यावर्त्तते ।।
'बुद्धिर्यद्युत्पत्तिमती स्यात् चेतना न स्या'दित्यापादनाङ्गस्य 'यद् उत्पत्तिमत् तद् न
'बुद्धिरचेतनेत्यादौ च'-अत्र रत्नप्रभायामुद्धृतो 'नन्वेवं प्रसङ्गे ...इति रत्नाकरपाठः समस्ति। १. बुद्धिरचेतना-उत्पत्तिमत्त्वादित्यत्र प्रसङ्गसाधनमिति कथने द्वयी गतिः । १) इदं मूलानुमानमस्तु, 'बुद्धिनोत्पत्तिमती-चेतनत्वा'दिति प्रसङ्गोऽस्तु, उत्पत्तिमत्त्वाभावस्य बुद्धावनिष्टत्वात् प्रसङ्गस्य विपर्यये पर्यवसानमिति बुद्धावचेतनत्वसिद्धिः । प्रकारोऽयमवतरणिकायां दर्शितः । २) बुद्धिरचेतना-उत्पत्तिमत्त्वादित्यस्य 'यद् उत्पत्तिमत् तन्न चेतनम्, उत्पत्तिमती च बुद्धि'रिति प्रसङ्गे तात्पर्यम् । तथा च बुद्धावचैतन्यस्य बौद्धैरनिष्टत्वात् प्रसङ्गविपर्ययाद् 'बुद्धिर्नोत्पत्तिमती-चेतनत्वा'दिति मूलानुमाने पर्यवसानम् । ततश्च बुद्धावुत्पत्तिमत्त्वाभावस्य सिद्धिः । गतिरियं व्याख्यानावसरे प्रदर्शिता । अत्र प्रथमप्रकारे पूर्वोक्त एव दोषः । द्वितीये च दोषद्वयम्-१. बुद्धौ चैतन्यस्य साङ्ख्यैरनभ्युपगमः २. 'चैतन्यमस्तु उत्पत्तिमत्त्वाभावो माऽस्तु'इति
प्रतिकूलशङ्कानिवारकतर्काभावाद् तद्विपर्ययरूप-प्रसङ्गहेतुसाध्ययोरपि व्याप्त्यभावः । २. विरुद्धधर्माध्यासो (धूमो वह्निजन्यो न स्यादित्यादिः) विपक्षबाधकप्रमाणं व्याप्तिसिद्धिनिबन्धनम् ।