________________
१५८
सटीकजैनतर्कभाषायां चेतनम्, यथा घटदि, उत्पत्तिमती च बुद्धिरित्यवयवद्वयात्मकप्रसङ्गसाधनस्य प्रथममुपन्यासः । तत्र बुद्धेरचैतन्यं न बौद्धस्येष्टमिति विपर्ययः-बुद्धिर्नोत्पत्तिमती-चेतनत्वादिति । अत्र 'यत्र चैतन्यं तत्रोत्पत्तिमत्त्वाभाव' इति व्याप्तिः साङ्ख्यस्य सिद्धा, चेतनत्वमपि पुरुषे साङ्ख्यस्य प्रसिद्धम्, परं साङ्ख्यमते उत्पत्तिमत्त्वाभावः सर्वत्रैव चेतनेऽचेतने चेति चेतनत्वे उत्पत्तिमत्त्वाभावस्य नाऽन्तर्व्याप्तिः । अतः तत्राऽप्रयोजके हेतौ परेणेत्थं वक्तुं शक्यते-उत्पत्तिमत्यप्यस्तु बुद्धिः चेतनाऽप्यस्तु, नहि चेतनत्वस्योत्पत्तिमत्त्वविरोधे किञ्चिद् मानं विद्यते साङ्ख्यस्येति । विरुद्धधर्माध्यासलक्षणविपक्षबाधकप्रमाणस्याऽनुपस्थापनादुपस्थापयितुमशक्यत्वाद् विपर्ययानुमानहेतुसाध्ययोर्व्याप्तिसिद्ध्यभावे तयोर्व्याप्यव्यापकभावनिबन्धनस्य प्रसङ्गे विपर्ययसाध्याभावरूपव्यापकाभावहेतुक-विपर्ययहेत्वभावरूपव्याप्याभावलक्षणसाध्यसाधनकारणव्याप्तिग्रहस्याऽसिद्ध्या प्रसङ्गस्याऽप्यन्याय्यत्वम् । दर्शितप्रसङ्गविपर्ययसाधनपरताऽपि 'बुद्धिरचेतना-उत्पत्तिमत्त्वाद्-घटव'दिति साङ्ख्यानुमानस्योदक्षरत्वाद्। न युक्तमित्यर्थः । ___वदन्ति-स्याद्वादरत्नाकरे श्रीमन्तो देवसूरयो वदन्ति । तथा चैतत्तत्त्वबुभुत्सुभिः स्याद्वादरत्नाकरोऽवलोकनीयः । तत्र 'प्रसङ्गविपर्ययरूपमौलहेतोरेव तन्निश्चायकत्वा'दि त्याद्येतद्ग्रन्थस्थसन्दर्भाभिप्रायसमानाभिप्रायक: पाठश्चेत्थं
"प्रसङ्गः खल्वत्र व्यापकविरुद्धोपलब्धिरूपः । अनेकव्यक्तिवर्तित्वस्य हि व्यापकमनेकत्वम्-ऐकान्तिकैकरूपस्याऽनेकव्यक्तिवतित्वविरोधाद् । अनेकत्रवृत्तेस्नेकत्वं व्यापकम्, तद्विरुद्धं च सर्वथैक्यं सामान्ये त्वयाऽभ्युपगम्यते ततो नाऽनेकवृत्तित्वं स्याद्-विरोध्यैक्यसद्भावेन व्याप्येन व्यापकस्याऽनेकत्वस्य निवृत्त्या व्याप्यस्याऽनेकवृत्तित्वस्याऽवश्यंनिवृत्तेः । न च तन्निवृत्तिरभ्युपगतेति लब्धावसरः प्रसङ्गविपर्ययाख्यो विरुद्धव्याप्तोपलब्धिरूपोऽत्र मौलो हेतुः, यथा-यद् अनेकवृत्ति तद् अनेकम्, अनेकवृत्ति च सामान्यमिति । एकत्वस्य हि विरुद्धमनेकत्वम्, तेन व्याप्तमनेकवृत्तित्वम्, तस्योपलब्धिरिह । मौलत्वं चाऽस्य-एतदपेक्षयैव प्रसङ्गोपन्यासात् । न चाऽयमुभयोरपि न सिद्धः-सामान्ये जैनयोगाभ्यां तदभ्युपगमात् । ततोऽयमेव मौलो हेतुरयमेव वस्तुनिश्चायकः" इति ।
__'बुद्धिरचेतनेत्यादौ चे'त्याद्येतद्ग्रन्थफक्किकाऽपि रत्नाकरस्थशङ्काग्रन्थमवतरणरूपतया मनसि संस्थाप्य तत्समाधानरूपैव ग्रन्थकृतोद्भाविता । तथा च तद्ग्रन्थः१. अव्यभिचारव्याप्तिः । २. विपर्ययानुमानहेतुसाध्ययोाप्यव्यापकभावः प्रसङ्गानुमानसाध्य (विपर्ययहेत्वभाव)-हेतु (विपर्ययसाध्याभाव)
व्याप्तिग्रहे निबन्धनम् । ३. विपक्षबाधकप्रमाणानुपस्थापनारूपन्यूनतावत्त्वाद् ।