________________
१५६
सटीकजैनतर्कभाषायां सर्वथैकं स्यात्, अनेकर्मिणि न सम्बनीयादिति । तत् किमत्र वस्तुनिश्चयो न भवत्येव ? एवञ्चैतदुद्भावनमनर्थकमेव भवतां प्रसज्येतेत्याह-प्रसङ्गेति ।
___एतत् प्रसञ्जनं नैयायिकस्येष्टा(स्याऽनिष्टा ?)पादनरूपम्, यतः सामान्यस्याऽनेकर्मिसम्बन्धित्वाभावे सामान्यरूपतैव न स्यात्-नित्यत्वे सत्यनेकसमवेतत्वस्य सामान्यलक्षणत्वेन तेनाऽभ्युपगमात् । ततोऽस्य प्रसङ्गस्य विपर्ययपर्यवसानम्, विपर्ययश्च प्रकृते-अस्ति चाऽनेकसम्बन्धि सामान्यं ततो न सर्वथैकमिति । मौलहेतोरेवेति । अत्र च यद् अनेकसम्बन्धि तद् न सर्वथैकमिति, तत्र चाऽनेकसम्बन्धित्वलक्षणहेतुर्न [केवलं] न्यायागमसिद्धः, किन्तु जैनागमसिद्धोऽपि । स विपर्ययहेतुः स्वतन्त्रसाधनरूपत्वाद् मौलहेतुरभिधीयते, तस्यैवेत्यर्थः । एवकारेण प्रसङ्गहेतोर्व्यवच्छेदः । तन्निश्चायकत्वाद्-वस्तुनिश्चायकत्वात्, सामान्यगतसर्वथैकत्वाभावश्च विपर्यये साध्यः, स च वस्त्वेवेति ।
ननु स्वतन्त्रसाधनत्वाद् विपर्ययहेतुरेव प्रथमतः प्रयोक्तव्यः, अलं प्रसङ्गहेतूपन्यासेनेत्यत
आह
अनेकवृत्तित्वव्यापकानेकत्वनिवृत्त्यैव तन्निवृत्तेौलहेतुपरिकरत्वेन प्रसङ्गोपन्यासस्याऽपि न्याय्यत्वात् ।
अनेकेति । यत्राऽनेकवृत्तित्वं तत्राऽनेकत्वमिति नियमादनेकवृत्तित्वस्य व्यापकमनेकत्वम् । नैयायिकेन सामान्ये सर्वथैकत्वमभ्युपगच्छताऽनेकवृत्तित्वव्यापकस्याऽनेकत्वस्य निवृत्तिरभ्युपगतैव, तयैवेत्यर्थः । तथा च यत्र व्यापकाभावः तत्र व्याप्याभाव इति व्याप्तेः,
'अनेकवृत्तित्व'-अनेकवृत्तित्वस्य व्यापकं यद् अनेकत्वम्, तस्य या सर्वथैक्यस्वीकारे सति निवृत्तिः, तयैव व्यापकनिवृत्त्या व्याप्यीभूतानेकवृत्तित्वनिवृत्तेः प्रसङ्गः 'यदि सामान्यं सर्वथैकं स्यात् तदा अनेकवृत्ति न स्यात्' इत्यादिरूपो यः क्रियते, स एव सामान्येऽनेकत्वसाधके अनेकवृत्तित्वरूपे मौलहेतौ 'सामान्यमनेकवृत्ति भवतु मा भूदनेकम्' इत्येवंरूपायाः व्यभिचारशङ्कायाः निवर्तकत्वेन तर्कापरपर्यायः परिकरो अभिधीयते । एतादृशस्य प्रसङ्गाख्यपरिकरस्य व्यभिचारशङ्काविधूननद्वारा मौलहेतुगतव्याप्तिसिद्धिपर्यवसायिनः उपन्यासस्य सर्वसम्मततया न्याय्यत्वमेव इति भावः ।
१. अत्र मूलानुमानम्-सामान्य-न सर्वथैकम्-अनेकसम्बन्धित्वात् । तस्य व्यतिरेकव्याप्तिः यत् सर्वथैकं तद्
नाऽनेकत्र सम्बद्ध्यते इति । एतदनुसारमत्राऽऽपत्तिर्दीयते-सामान्यम्-अनेकसम्बन्धित्वाभाववत्सर्वथैकत्वादिति । एष एव प्रसङ्गः । नैयायिकस्य सामान्येऽनेकसम्बन्धित्वाभावस्याऽनिष्टत्वाच्च सर्वथैकत्वाभावः सिद्ध्यति । अनुमानं च-सामान्यं-न सर्वथैकम्-अनेकसम्बन्धित्वात् । एष एव प्रसङ्गविपर्ययः ।