________________
परार्थानुमानसम्बन्धिमतान्तरखण्डनम्
१५५ शास्त्रत्वेन प्रामाण्यं परकीयागमस्याऽपि पराभ्युपगमविषयः, तथापि परीक्षादशायां तत्प्रतिपादितार्थस्याऽयुक्तत्वव्यवस्थितौ बाधितार्थकत्वेनाऽप्रामाण्यस्यैव व्यवस्थित्या प्रामाण्याभ्युपगमस्य बाधादिति कथाकाले परस्परशास्त्रार्थपरीक्षायां प्रस्तुतायां न परकीयागमप्रसिद्ध स्वतोऽसिद्ध हेतुतयोद्भावनीयमिति तादृशहेतुवचनं न परार्थानुमानमित्याह-परीक्षापूर्वमिति । तद्बाधात्= परकीयागमप्रामाण्याभ्युपगमाभावात् ।
ननु यदि परागमसिद्धहेतुना साध्यसाधनं न न्याय्यम्, तर्हि नैयायिकागमसिद्धसर्वथैकत्वहेतुना, सामान्यस्याऽनेकर्मिसम्बद्धत्वाभावसाधनं स्याद्वादिनोऽप्ययुक्तमिति शङ्कते
नन्वेवं भवद्भिरपि कथमापाद्यते परं प्रति यत् सर्वथैकं तद् नाऽनेकत्र सम्बध्यते, तथा च सामान्यम्' इति ? सत्यम्,
एवं परागममात्रसिद्धहेतुवचनस्याऽयुक्तत्वे, भवद्भिरपि-जैनैरपि, परं प्रति-नैयायिक प्रति । आपादनाकारो यत्सर्वथैकमित्यादिना दर्शितः । यत् सर्वथैकं तद् नाऽनेकत्र सम्बद्ध्यते इति व्याप्तिप्रदर्शनम् । तथा च सामान्यमित्युपसंहारवचनम्, सर्वथैकं च सामान्यमिति तदर्थः । ततश्च सामान्यं नाऽनेकत्र सम्बद्ध्यते इत्यापादनम् ।
यदि स्वतन्त्रानुमानरूपमिदं स्यात् तदाऽयुक्तत्वमस्याऽपि स्यादेवेत्यर्द्धस्वीकारपरं सत्यमिति ।
तहि किमिदमित्यपेक्षायामाह
एकधर्मोपगमे धर्मान्तरसन्दर्शनमात्रपरत्वेनैतदापादनस्य वस्तुनिश्चायकत्वाभावात्, प्रसङ्गविपर्ययरूपस्य मौलहेतोरेव तन्निश्चायकत्वात् ।
एकधर्मोपगमे नैयायिकेन सामान्ये सर्वथैकत्वरूपधर्मोपगमे, तं प्रति, धर्मान्तरस्यसर्वथैकत्वव्यापकानेकर्मिसम्बन्धित्वाभावस्य, सन्दर्शनमात्रपरत्वेन-प्रदर्शनमात्राभिप्रायकत्वेन, एतदापादनस्य यत् सर्वथैकं तद् नाऽनेकत्र सम्बद्ध्यते, तथा च सामान्य' - मित्यापादनस्य वस्तुनिश्चायकत्वाभावात्-तद्विषयीभूत-सामान्यगतानेकसम्बन्धित्वाभावस्य वस्तुतोऽभावेन वस्तुनिश्चायकत्वासम्भवात् ।
व्याप्याभ्युपगमनान्तरीयको व्यापकाभ्युपगमो यत्र प्रसज्यते तत् प्रसङ्गसाधनमिति लक्षणसद्भावेन प्रसङ्गसाधनमेवैतद् नैयायिकं प्रति जैनेन क्रियते । तदाकारच यदि सामान्य
'प्रसङ्गविपर्यय'-अत्र रत्नप्रभायामुद्धृतः 'प्रसङ्गः खल्वत्रे'त्यादिरत्नाकरपाठः समस्ति ।