________________
१५४
सटीकजैनतर्कभाषायां अथवा नैरात्म्यवादिनं बौद्धं प्रत्येवैतदनुमानं साङ्ख्यस्य । यतो नैरात्म्यवादिना बौद्धेनाऽऽत्मस्थाने आलयविज्ञानसन्ततिरेवाऽभिषिक्ता । तन्मते ज्ञानस्वरूपा बुद्धिरेव चेतनास्वप्रकाशत्वात् । अतः तन्मताया बुद्धेरेवाऽचैतन्यं साङ्ख्येन साध्यते । बौद्धमते सर्वस्य क्षणिकत्वात् सर्वान्तःपातिन्या बुद्धरपि क्षणिकत्वम्, क्षणिकत्वाच्चोत्पत्तिमत्त्वमपि तन्मतसिद्धम् । ततः तदागमसिद्धोत्पत्तिमत्त्वेन बुद्धेरचैतन्यसाधनमुक्तदिशा परार्थानुमानम् । अन्यत् सर्वं दर्शितदिशाऽवसेयम् ।
उक्तसाङ्ख्यलक्षितपरार्थानुमानलक्षणस्याऽसुन्दरत्वे हेतुमाह
वादिप्रतिवादिनोरागमप्रामाण्यविप्रतिपत्तेः, अन्यथा तत एव साध्यसिद्धिप्रसङ्गात् । परीक्षापूर्वमागमाभ्युपगमेऽपि परीक्षाकाले तद्बाधात् ।
वादिप्रतिवादिनोरिति । साङ्ख्यनैयायिकयोरिति साङ्ख्यबौद्धयोरिति वाऽर्थः । आगमेति । साङ्ख्यागमप्रमाण्ये बौद्धस्य विप्रतिपत्तेबौद्धागमप्रामाण्ये साङ्ख्यस्य च विप्रतिपत्तेरित्यर्थः । तथा च बौद्धागमसिद्धमुत्पत्तिमत्त्वं वस्तुतोऽसिद्धमेव साङ्ख्यस्येति, परप्रतिपत्त्यर्थं तद्वचनं न घटते एवेति, कथं तस्य परार्थानुमानत्वमिति भावः ।
अन्यथा-वादिप्रतिवादिनोः परस्परागमप्रामाण्यविप्रतिपत्त्यभावे, तत एव आगमादेव । साङ्ख्यागमे कूटस्थपुरुषभिन्नसर्वस्यैवाऽचैतन्यं प्रतिपादितमस्तीति साङ्ख्यागमत एव प्रतिवादिनो नैयायिकस्य-कर्तुरचैतन्यस्य, प्रतिवादिनो बौद्धस्य-बुद्धेरचैतन्यस्य सिद्धिप्रसङ्गतः, तं प्रति तत्साधनायाऽनुमानप्रणयनं साङ्ख्यस्य विफलमेव प्रसज्येतेति भावः ।
यद्यपि परागमप्रतिपादितार्थस्य युक्तत्वमयुक्तत्वं वा यावद् न परीक्षितं तावत् सामान्यतः
'अन्यथा'-विप्रतिपन्नप्रामाण्यकागमाश्रयेण साधनोपन्यासे इत्यर्थः । 'तत एव'-प्रतिवादिमात्रसम्मतादेव, तदीयादागमात् साध्यसिद्धिप्रसङ्गात्-प्रतिवादिनि स्वकोटेः स्वागमेनैव निश्चितत्वात् वादिकोटेश्च तेनैव आगमेन बाधितत्वात् संशयरूपपक्षतायाः अभावेन तत्र नाऽनुमितिसम्भव इत्यर्थः ।
ननु अनुमानोत्तरकालं तु प्रतिवादिना परीक्ष्य आगमः स्वीकरिष्यते, अनुमानकाले पुनः परम्परायातेन अभिनिवेशमात्रेण तेन स्वीकृत इति तदाश्रयेण साधनमुपन्यस्यन् वादी कथमुपालम्भास्पदं भवेत् ? इत्याशङ्कायामाह 'परीक्षाकाले तद्वाधात्' इति । तथा च अनुमानावसरे वादिविरोधं सहमानस्य प्रतिवादिनः स्वागमप्रामाण्यं न निश्चितं नाम । एवं च यथा प्रतिवाद्यागमः वादिनोऽनिश्चितप्रामाण्यकस्तथा प्रतिवादिनोऽप्यनिश्चितप्रामाण्यक इति न तदाश्रयेण साधनोपन्यासः कामपि इष्टसिद्धिं पुष्णातीति भावः ।