________________
परार्थानुमानसम्बन्धिमतान्तरखण्डनम्
१५३ ___परेणैव-प्रतिवादिनैव, आगमात्-स्वाभ्युपगतशास्त्रात्, ज्ञातस्य प्रसिद्धस्य, हेतोरिति दृश्यम्, वचनं वादिनोपन्यस्तं वचनम् । तथा च प्रतिवाद्यभ्युपगतागमप्रसिद्धस्य हेतोः साध्यप्रतिपत्त्यर्थं वचनं परार्थानुमानमित्यर्थः ।
___ उदाहरति-यथेति । बुद्धिः-प्रकृतेः प्रथमः परिणामो महत्तत्त्वापराभिधानमन्तःकरणम् । साऽचेतना, तस्याः कर्तृत्वेऽपि न चैतन्यम्, कूटस्थनित्यस्य पुरुषस्यैव चैतन्यम्, तत्सम्बन्धादचेतनाऽपि बुद्धिः चेतनेव भवति-इत्युपपादनाय साध्यते । कतुरेव चैतन्यमित्यभ्युपगन्तारं नैयायिकं प्रति साङ्ख्यानुमान-साङ्ख्येन वादिना कृतमनुमानम् ।
तत्र निरुक्तलक्षणस्य सङ्गमनायाऽऽह-अत्रेति । हि-यतः । बुद्धाविति प्रकृतत्वादुक्तम्। सत्कार्यवादिना साङ्ख्येन-पूर्वमसतः सत्त्वलक्षणाऽऽद्यक्षणसम्बन्धापराभिधानोत्पत्तिः कुत्रापि नेष्यते, किन्त्वसत्कार्यवादिना नैयायिकादिनैवोक्तोत्पत्तिमत्त्वं स्वीक्रियते, साङ्ख्यस्य तु तत्स्थाने आविर्भावाद् ध्वंसस्थाने च तिरोभावाद् व्यवहतिः । तथा च नैयायिकाद्यभ्युपगतशास्त्रप्रसिद्धोत्पत्तिमत्त्वलक्षणहेतुवचनमिदं परार्थानुमानमित्यर्थः ।
प्रतिवाद्यागमो न वादिना, वाद्यागमश्च न प्रतिवादिना प्रमाणतयाऽभ्युपगम्यते इति तत्तदागममात्रप्रसिद्धो हेतु!भयवादिप्रसिद्धः । उभयवादिप्रसिद्धस्यैव च हेतुता युक्तेति न पराभिमतमुक्तलक्षणं सम्यग्, न वा तल्लक्ष्यतया उपढौकितं तथेत्याह
तदेतदपेशलम्, निरुक्तपरमतमसुन्दरमित्यर्थः ।
प्राग्निर्दिष्टं लक्षणान्तरं निराकरोति 'तदेतदपेशलम्' इत्यादिना । अत्रायं भावः-वादिप्रतिवाद्युभयसिद्धस्यैव साधनस्य परार्थानुमानोपयोगितया न वादिप्रतिवाद्येकतरसिद्धसाधनेन अनुमानप्रवृत्तिरुचिता । तथा च साधनसिद्धये समाश्रीयमाणः आगमोऽपि वादिप्रतिवाद्युभयसम्प्रतिपन्नप्रामाण्यक एव परार्थानुमानोपजीव्यः, न तु तदन्यतरमात्रसम्मतप्रामाण्यकः । एवं च न प्रतिवादिमात्राभ्युपगतप्रामाण्यकेन आगमेन साधनमुपन्यस्य अनुमानप्रवर्तनं वादिनो न्याय्यम् । वादी हि प्रतिवाद्यागमं तेन परीक्ष्य स्वीकृतं अपरीक्ष्य वा स्वीकृतं मत्वा तमागममाश्रयन्ननुमानावसरे साधनमुपन्यस्येत् ? न प्रथमः पक्षः, वादिनाऽपि तदागमप्रामाण्यस्य स्वीकरणीयत्वापत्तेः । न हि परीक्षितं केनापि प्रामाणिकेन उपेक्षितुं शक्यम् । तथा च प्रतिवाद्यागमानुसारेणैव साधनवत् साध्यकोटेरपि वादिना अवश्याङ्गीकार्यत्वेन तद्विरुद्धसाधनाय अनुमानोपन्यासस्य वैयर्थ्यात् आगमबाधितत्वाच्च । न द्वितीयः, अपरीक्ष्याभ्युपगतस्य प्रामाण्यस्य प्रतिवादिनोऽपि शिथिलमूलतया सन्दिग्धतया च सन्दिग्धप्रामाण्यकतादृशप्रतिवाद्यागमानुसारेण असन्दिग्धसाधनोपन्यासस्य वादिना कर्तुमशक्यत्वात् ।