________________
१५२
सटीकजैनतर्कभाषायां
अस्ति च शाक्यशास्त्रे तत्प्रयोगः, अतोऽन्यत्राऽपि तत्प्रयोगोऽवर्जनीय एव । अन्यथा कल्पनाया दृश्यानुसारित्वं भज्येत, अदृश्यानुसारित्वं च प्रसज्येतेत्याह
किञ्च, प्रतिज्ञायाः प्रयोगानर्हत्वे शास्त्रादावप्यसौ न प्रयुज्येत, दृश्यते च प्रयुज्यमानेयं शाक्यशास्त्रेऽपि । परानुग्रहार्थं तत्प्रयोगश्च वादेऽपि तुल्यः - विजिगीषूणामपि मन्दमतीनामर्थप्रतिपत्तेः तत एवोपपत्तेरिति ।
भवतामेव शास्त्रे प्रतिज्ञायाः प्रयोगः, तद्बलाद् नाऽस्माभिः तत्प्रयोगः कक्षीकरणीय इति यदि ब्रूयात्, तदा यत् शास्त्रं तेन प्रमाणीकृतम्, तत्राऽप्यस्याः प्रयोगो दृश्यते, तद्दर्शनापलापः तदप्रमाणता च वक्तुमशक्येत्याशयेनाऽऽह - दृश्यते चेति । इयं = प्रतिज्ञा शाक्यशास्त्रेऽपि = बौद्धदर्शनेऽपि ।
मन्दमतीनां प्रतिनियतधर्मिधर्मतया तत्तदभिमतार्थप्रतिपत्तितोऽज्ञानादिकं निवर्त्ततामित्युपकृतीच्छया यदि शास्त्रे प्रतिज्ञावचनोपन्यासः, तर्हि तादृशोपकृतीच्छा वादिनो वादेऽपि प्रतिवादिमन्दमतीनधिकृत्य भवत्येव । मन्दमतयोऽपि स्वाभिमतशास्त्रार्थसत्यत्वाभिमानाग्रहग्रहिलाः स्वेष्टशास्त्रप्रतिपक्षशास्त्रपरायणवादिजिगीषया कथायामुपसर्पन्त्येवेति तान् प्रति प्रतिनियतधर्मिधर्मतया साध्यस्य प्रतिपत्त्यर्थं वादेऽपि प्रतिज्ञोपन्यासो युक्त एवेत्याह-परानुग्रहार्थमिति । तत्प्रयोगः - पक्षप्रयोगः । तत एव = प्रतिज्ञावाक्यादेव ।
परार्थानुमानस्याऽन्यवाद्यभिमतं लक्षणं प्रतिक्षेतुमुपन्यस्यति—
आगमात् परेणैव ज्ञातस्य वचनं परार्थानुमानम् । यथा 'बुद्धिरचेतना - उत्पत्तिमत्त्वाद्- घटव 'दिति साङ्ख्यानुमानम् । अत्र हि बुद्धावुत्पत्तिमत्त्वं साङ्ख्येन नैवाSभ्युपगम्यते इति ।
यद्यपि वादिप्रतिवाद्युभयसम्प्रतिपन्नमेव साधनं वादभूमिकायामुपयुज्यते इति सर्वसम्मता वादमर्यादा, तथापि कश्चित् साङ्ख्यप्रख्यः स्वसिद्धान्तं स्थापयितुं स्वानभिमतमपि किञ्चित् साधनं प्रतिवादीष्टत्वमात्रेण वादकाल एव प्रयोक्तुमिच्छत्रेव तां सर्वसम्मतवादमर्यादामतिक्रम्य स्वाभिप्रायानुकूलमेव परार्थानुमानीयं यत् लक्षणान्तरं प्रणीतवान् तदेवाऽत्र ग्रन्थकारः स्याद्वादरत्नाकर[पृ० ५५१] दिशा निरसितुं निर्दिशति 'आगमात् परेणैव' इत्यादिना । ' आगमात् ' -आगमानुसारेण, 'परेणैव'- प्रतिवादिनैव, 'ज्ञातस्य' - सम्मतस्य, 'वचनम् ' - साधनतया वादकाले वादिना प्रयोग इत्यर्थः । तथा च वादिना प्रतिवादिनि स्वसिद्धान्तप्रत्यायनं साधनसिद्धया सम्पादनीयम् । सा च साध्यसिद्धिर्यदि केवलप्रतिवादिन्यपि स्यात् तावतैव वादी कृतार्थो भवेदिति किम् उभयसिद्धसाधनगवेषणप्रयासेन ? इति परार्थानुमानीयलक्षणान्तरकारिणः पूर्वपक्षिण आशयः ।