________________
१५१
परार्थानुमानसम्बन्धिमतान्तरखण्डनम् त्वमभ्युपगन्तव्यम्, अन्यथा हेतोः प्रतिनियतर्मिधर्मताप्रतिपत्यर्थमुपनयरूपस्योपसंहारवचनस्य प्रयोक्तव्यत्वमपि तत्कक्षीकृतं त्यक्तं स्याद्-उभयोः समानत्वादित्याह
अवश्यं चाऽभ्युपगन्तव्यं हेतोः प्रतिनियतमिधर्मताप्रतिपत्त्यर्थमुपसंहारवचनवत् साध्यस्याऽपि तदर्थं पक्षवचनं ताथागतेनाऽपि, अन्यथा समर्थनोपन्यासादेव गम्यमानस्य हेतोरप्यनुपन्यासप्रसङ्गाद-मन्दमतिप्रतिपत्त्यर्थस्य चोभयत्राऽविशेषात् ।
____ताथागतेनाऽपि पक्षवचनमवश्यं चाऽभ्युपगन्तव्यमित्यन्वयः । तथागतो बुद्धः, तच्छिष्यः ताथागतः, तेन बौद्धेनेत्यर्थः । हेतो: साधनस्य, प्रतिनियतधर्मी-यत्र धर्मिणि साध्यं साधनीयं सः, तद्धर्मिता-तत्सम्बन्धिता, तस्याः प्रतिपत्त्यर्थं पक्षे हेतुज्ञानार्थमिति यावत् उपसंहार:=पक्षसमीपे हेतोनयनं हेतोः पक्षसम्बन्धित्वम्, तस्य वचनं तत्प्रतिपादकवचनम्, उपनय इति यावत् । तद्वदिति । हेतोः पक्षसम्बन्धित्वप्रतिपत्तये बौद्धेनोपनयो यथाऽभ्युपगम्यते तथेत्यर्थः । साध्यस्याऽपि तदर्थ-साध्यस्य प्रतिनियतधर्मिधर्मताप्रतिपत्त्यर्थम् । पक्षवचनंप्रतिज्ञावाक्यम् ।
अन्यथा विवादादेव पक्षस्य गम्यमानत्वादप्रयोगे, समर्थनोपन्यासादेव= 'हेतुभावेऽवश्यं साध्यस्य भाव' इत्यस्य समर्थकं यद् दृष्टान्ते हेतुसाध्ययोरविनाभावप्रतिपादकं वचनं तत् समर्थनम्-उदाहरणमिति यावत्, तस्योपन्यासाद्-उद्भावनादेव, गम्यमानस्य हेतो:'यद् व्याप्यं तद् हेतुः, यद् व्यापकं तत् साध्यमिति नियमाद् 'व्याप्यत्वेनाऽयमेव हेतु'रित्येवं ज्ञायमानस्य हेतोरपि, अनुपन्यासप्रसङ्गात्-उपसंहारवचनेन यद् उपन्यसनं तदभावापत्तेः ।। . मन्दमतिः प्रतिवादी उदाहरणवाक्यतो हेतुस्वरूपमवधारयितुं न शक्नोतीति तत्प्रतिपत्त्यर्थमुपसंहारवचनस्याऽऽवश्यकत्वं यदि भवता मन्यते, तदा कश्चिद् मन्दमतिर्विवादतोऽपि पक्षमवधारयितुं न शक्नोतीति तत्प्रतिपत्त्यर्थं पक्षवचनस्याऽप्यावश्यकत्वमभ्युपगम्यतामित्याहमन्दमतीति ।
प्रतिज्ञायाः प्रयोगो बौद्धशास्त्रेऽपि दृश्यते । तत् शास्त्रमपि परप्रतिपत्त्यर्थं प्रवृत्तत्वात् परार्थमेव । तथा च यदि प्रतिज्ञाया न प्रयोगार्हत्वम्, तदा शाक्यशास्त्रेऽपि तत्प्रयोगो न स्याद् ।
'समर्थन'-"त्रिविधमेव हि लिङ्गमप्रत्यक्षस्य सिद्धेरङ्गम्-स्वभावः कार्यमनुपलम्भश्च । तस्य समर्थनं साध्येन व्याप्ति प्रसाध्य धर्मिणि भावसाधनम् । यथा यत् सत् कृतकं वा तत् सर्वमनित्यं यथा घटदिः सन्कृतको वा शब्द इति । अत्रापि न कश्चित् क्रमनियमः इष्टार्थसिद्धेरुभयत्राऽविशेषात् । धर्मिणि प्राक् सत्त्वं प्रसाध्य पश्चादपि व्याप्तिः प्रसाध्यत एव यथा सन् शब्दः कृतको वा, यश्चैवं स सर्वोऽनित्यः यथा घटदिरिति ।"-वादन्याय पृ० ३-६ ।'