________________
१५०
सटीकजैनतर्कभाषायां
सम्बन्धः । अप्रयोगः-परस्याऽनुमित्यर्थं प्रयोक्तव्ये न्यायवाक्ये तद्घटकतया पक्षस्य न प्रयोगः । तन्न, यत्किञ्चिद्वचनव्यवहितात् ततो व्युत्पन्नमतेः पक्षप्रतीतावप्यन्यान् प्रत्यवश्यनिर्देश्यत्वात् ।
तन्नेति । एकान्तेन पक्षस्याऽप्रयोग इति बौद्धमतं न समीचीनमित्यर्थः । निषेधे हेतुमाह-यत्किञ्चिदिति । विप्रतिपत्त्यनन्तरं 'पूर्वं भवता वक्तव्यम्, तदनन्तरमनेने 'त्यादिवचनव्यवहितात् पूर्वं विप्रतिपत्तिलक्षणो विवादः, ततः कथाबहिर्भूतमेवोक्तवचनम्, ततो वादिना स्वपक्षस्थापनालक्षणकथारम्भः, तत्र निरुक्तवचनेन मध्यस्थितेन निरुक्तविवादो व्यवहितो भवत्येव' । तथाभूतात् ततो-विवादाद्, व्युत्पन्नमते:- 'यत् सत् तत् क्षणिकं यथा घट' इत्युदाहरणवाक्यप्रयोगात्, ‘सँश्च शब्द' इत्युपनयवाक्यप्रयोगादनेन वादिना 'शब्दादिः क्षणिक' इति पक्ष एव नूनं परिगृहीत इत्यूहापोहकुशलबुद्धिशालिनः प्रतिवादिनः । पक्षप्रतीतावपि = पक्षवचनप्रयोगमन्तरेणाऽपि पक्षज्ञानेऽपि । तथा च व्युत्पन्नमतिप्रतिवादिनं प्रति न प्रयोक्तव्यं पक्षवचनमित्याशयः ।
अन्यान्=व्युत्पन्नमतिभिन्नान् मन्दमतीन् प्रतिवादिनः प्रति । तेषामूहापोहविकलानां 'पूर्वमीदृशी विप्रतिपत्तिः, तत एतादृशोदाहरणादिवाक्यविन्यासः, तेनाऽनेनैव पक्षेण भवितव्य' - मित्याद्यनुसन्धानासम्भवात्, उदाहरणप्रयोगे सत्यपि 'किमिदं क्षणिकत्वे साध्ये साधर्म्य - दाहरणं ? किं वाऽसत्त्वे साध्ये वैधम्र्योदाहरणमेत' दित्यादिसंशयसम्भवाच्च, अवश्यनिर्देश्यत्वात्-पक्षवचनस्याऽवश्यं प्रयोक्तव्यात्, तदन्तरेण मन्दमतीनां पक्षप्रतीतेरसम्भवात् ।
यत्र च विप्रतिपत्त्यनन्तरमेव स्वपक्षसाधनाय परमुद्दिश्य परार्थानुमानं वचनलक्षणमारचयति वादी, तत्र मन्दमतेरपि कस्यचित् प्रतिवादिनः वादिप्रयुक्तोदाहरणादिलक्षणेनाऽनुमानवाक्यावयवेनैकवाक्यतया गृह्यमाणाद् विप्रतिप्रतिलक्षणविवादादपि पक्षस्य प्रतिपत्तिसम्भवेन, तत्र तं प्रति पक्षस्याऽप्रयोगोऽपि स्याद्वादिन इष्ट एवेति पक्षस्य प्रयोगाप्रयोगयोरनेकान्त एव विजयते इत्याह
प्रकृतानुमानवाक्यावयवान्तरैकवाक्यतापन्नात् ततोऽवगम्यमानस्य पक्षस्या
ऽप्रयोगस्य चेष्टत्वात् । ततः-विवादात् ।
साध्यस्य प्रतिनियतधर्मिधर्मताप्रतिपत्त्यर्थं बौद्धेनाऽवश्यमेव पक्षवचनस्य प्रयोक्तव्य
१. पूर्वं मध्यस्थेन विप्रतिपत्तिः प्रदर्शिता, ततः केन प्रथमं वक्तव्यम्, केन पश्चादिति व्यवस्था प्रदर्शिता । पश्चाद् वादारम्भो जातः । तत्र व्यवस्थावचनेन वादाद् विप्रतिपत्तिर्व्यवहिता भवत्येव ।