________________
परार्थानुमानम्
१४९ महानसमिति, यत्र यत्र धूमः तत्र वह्निर्यथा महानसमिति वोदाहरणम्, इदं चाऽन्वयव्याप्तिप्रतिपादकत्वात् साधोदाहरणमिति व्यपदिश्यते । यत्र वह्निर्नाऽस्ति तत्र धूमोऽपि नाऽस्ति यथा हुदे इति, यो न वह्निमान् स धूमवानपि न भवति यथा हुदे इति वोदाहरणं व्यतिरेकव्याप्त्युपदर्शकत्वाद् वैधोदाहरणमिति व्यपदिश्यते । धूमवान् च पर्वत इत्यर्थकं प्राचीनमते, नव्यमते तु वह्निव्याप्यधूमवान् च पर्वत इत्यर्थकं तथा चाऽयमिति वचनमुपनयः । वह्निव्याप्यधूमवत्त्वात् पर्वतो वह्निमानित्यर्थकं तस्मात् तथेति वचनं निगमनम् । अत्र 'साध्यस्याऽबाधितत्वप्रतिपत्तये पञ्चम्यन्तस्य घटकता–साध्यव्याप्यहेतुमत्त्वे साध्यवत्त्वं स्यादेवेति न तद्बाध इत्यस्य ततोऽवगतेः ।
- प्रतिज्ञाहेतूदाहरणानि उदाहरणोपनयनिगमनानि वा त्रीणि तत्र प्रयोक्तव्यानि इति मीमांसकादयः । उदाहरणोपनयौ द्वावेवाऽवयवौ तत्र प्रयोक्तव्याविति बौद्धाः।
__ अनुमानं प्रमाणं ज्ञानस्वरूपम्, वचनं च पौगलिकत्वाद् जडस्वरूपमिति तयोरत्यन्तविरोधे जाग्रति पक्षहेतुवचनस्याऽनुमानत्वोपदर्शनं न युक्तमित्याशङ्काव्यवच्छित्तये आहउपचारादिति । परस्य साध्यानुमितिरुक्तवचनाद् हेतुज्ञानादिद्वारा जायते इति परानुमितिकारणे उक्तवचने कार्यधर्ममनुमानत्वमुपचर्योक्तवचनं परार्थानुमानमिति व्यवह्रियते इत्यर्थः । एतदेव स्पष्टीकरोति-तेनेति । तेन-पक्षहेतुवचनेन, श्रोतुः एतद्वचनं शृण्वतः परस्य, अनुमानेन अनुमानद्वारा व्याप्तिस्मरणलिङ्गावगमद्वारेति यावत्, अर्थबोधनात्-परेष्टस्य साध्यस्याऽनुमितिलक्षणज्ञानोत्पादनात् ।
परमतनिराकरणपूर्वकस्वमतव्यवस्थापनरूपपरीक्षां परार्थानुमाने चिकीर्षन् ग्रन्थकार: परमतखण्डने यतमानः प्रथमं बौद्धमतं खण्डयितुं तन्मतमुपदर्शयति
पक्षस्य विवादादेव गम्यमानत्वादप्रयोग इति सौगतः,
पक्षस्य-साध्यवत्त्वेन पक्षप्रतिपादकप्रतिज्ञारूपपक्षवचनस्य 'शब्दादिः क्षणिक' इति सौगतप्रतिज्ञायाः, 'शब्दादिः क्षणिको नेति नैयायिकादिप्रतिज्ञायाः, तत्प्रतिपाद्यार्थस्य वा । विवादाद्-निर्वर्तनीयतया कथाङ्गस्य संशयस्य जनकत्वेनाऽऽदौ मध्यस्थेनाऽवश्यकर्त्तव्याद् विप्रतिपत्तिलक्षणविवादात्, 'शब्दादिः क्षणिको न वे'त्याकारकाद् । एवकारो विवादातिरिक्तस्वतन्त्रतत्प्रयोगं व्यवच्छिनत्ति । गम्यमानत्वादित्यत्र अप्रयोग इत्यत्र च पक्षस्येत्यस्य
१. 'तस्मात् तथेति वचने 'तस्मा दिति किमर्थं तद् दर्शयति-अत्रेति । २. कथया संशयो निवर्त्तनीयः । अतः स निवर्त्तनीयतया कथाङ्गं भवति । तज्जनिका विप्रतिपत्तिः । अतः सा
पूर्वमवश्यप्रदर्शनीया भवति ।