________________
१४८
सटीकजैनतर्कभाषायां नित्यत्वादावित्यत्र आदिपदादनित्यत्वपरिग्रहः । अत्रापि साध्यहेतू निरुक्तावेव । तर्कस्तु-अनित्यत्वं यदि अर्थक्रियानियामकं भवेत्, कारणं कार्यानुयायि न भवेद्, उपादानोपादेयभावादिश्च प्रतिनियतो न भवेदित्यादि|ध्यः । 'सर्वज्ञोऽस्ती'त्यादावपि 'वस्तुत्वं यत्किञ्चित्पुरुषवृत्तिप्रत्यक्षात्मकैकज्ञानविषयत्वव्याप्यं धर्मत्वात् तद्घटत्वव'दिति सम्भवत्येवाऽनुमानम् ।
___ अयं तत्त्वविचारो गूढरहस्यत्वाद् नाऽल्पज्ञैरवधारयितुं शक्य इति बहुविधशास्त्रज्ञैरेवाऽयं युक्तायुक्तविवेकायाऽऽलोचनीय इत्युपदर्शयति-इति सम्यग् निभालनीयमिति ।
स्वार्थानुमानं निरूप्य परार्थानुमानं निरूपयतिपरार्थं पक्षहेतुवचनात्मकमनुमानमुपचारात्, तेन श्रोतुरनुमानेनाऽर्थबोधनात् ।
अत्र परार्थमिति लक्ष्यनिर्देशः, तच्च अनुमानमित्यनेन सम्बध्यते, तथा च परार्थानुमानमिति लक्ष्यम्, पक्षहेतुवचनात्मकमिति लक्षणम् । पक्षवचनं-साध्यवत्तया पक्षस्य प्रतिपादकं वचनं प्रतिज्ञेति यावत्, हेतुवचनं-तृतीयान्तं पञ्चम्यन्तं वा लिङ्गस्य प्रतिपादकं वचनम्, तच्च हेतुरित्यभिधीयते, तदुभयात्मकं न्यायापरनामकं महावाक्यं परार्थानुमानमित्यर्थः ।
प्रतिज्ञाहेतू च न्यायैकदेशत्वादवयवशब्देनाऽपि व्यपदिश्यते । यत्राऽनयोर्द्वयोरपि परानुमित्यर्थमवश्यप्रयोजकत्वम्, तत्र तदुभयात्मकस्य न्यायस्य परार्थानुमानत्वम् । यत्र तु विशिष्टमतेः परस्याऽनयोरेकतरेणाऽप्यनुमानप्रतिपत्तिसम्भवः, तत्रैकस्याऽपि परार्थानुमानत्वं सम्भवतीत्येतदवयवद्वयात्मकन्यायवाक्यस्य परार्थानुमानत्वं नैतद्वयात्मकमहावाक्यत्वेनैव, किन्त्वेतदन्यतरवाक्यत्वेनेति बोध्यम् ।
___ प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्च न्यायावयवाः परार्थानुमानमिति नैयायिकाः । तत्र प्रतिज्ञाहेतुलक्षणमुपदर्शितमेव । साध्यहेत्वोरविनाभावप्रतिपादकं दृष्टान्तवचनमुदाहरणम् । हेतुमत्तया पक्षस्य वचनमुपनय इति प्राचीनमते, नव्यमते तु साध्यव्याप्तिविशिष्टहेतुमत्तया पक्षवचनमुपनयः । अबाधितत्वप्रतिपत्तये पक्षे साध्यस्य पुनर्वचनं निगमनम् ।
पर्वतो वह्निमानिति प्रतिज्ञा । धूमादिति हेतुः । यो यो धूमवान् स वह्निमान् यथा नित्यस्येदानी प्रमाणासिद्धत्वेन विकल्पसिद्धत्वात् तत्र सत्त्वासत्त्वातिरिक्तधर्मसाधने 'विकल्पसिद्ध धर्मिणि सत्तासत्तयोरेव साध्यत्व'मिति नियमस्य भङ्गः स्यात् । अथ चेदमत्र विचारणीयं-यथा 'शशशृङ्ग नाऽस्ती'त्यनुमाने न शशशृङ्गेऽसत्त्वं साध्यते, किन्तु शशसम्बन्धित्वावच्छेदेन शृङ्गेऽसत्त्वसाधनम्, शृङ्गे शशीयत्वस्यैवाऽभावसाधनं वा । तद्वदत्राऽपि एकान्तनित्ये (=अनित्यत्वासमानाधिकरणनित्यत्ववति) नाऽर्थक्रियासामर्थ्याभावः साध्यते, परमनित्यत्वासमानाधिकरणत्वावच्छेदेन नित्येऽर्थक्रियासामर्थ्याभावस्य, नित्येऽनित्यत्वासामानाधिकरण्याभावस्य वा साधनमिति ।