________________
१४७ ।
विकल्पसिद्धधर्मिचर्चा 'खरे विषाणं नाऽस्ती'त्येवंरूपतयोपपादनेऽपि, 'एकान्तनित्यमर्थक्रियासमर्थं न भवती'त्यनुमानस्य का गतिः ? तत्र खण्डशः प्रसिद्धिकरणप्रकारानुपलक्षणाद्, एकान्तनित्ये चाऽसति अर्थक्रियासामर्थ्यस्याऽप्यसत्तया तनिषेधासम्भवादित्यत आह
_ 'एकान्तनित्यमर्थक्रियासमर्थं न भवति-क्रमयोगपद्याभावा'दित्यत्राऽपि विशेषावमर्शदशायां क्रमयोगपद्यनिरूपकत्वाभावेनाऽर्थक्रियानियामकत्वाभावो नित्यत्वादौ सुसाध इति सम्यग् निभालनीयं स्वपरसमयदत्तदृष्टिभिः।
विशेषावमर्शदशायामिति । विशेषः साध्यव्याप्यत्वेन गृहीतो हेतुः, तस्याऽवमर्शः= साध्यधर्माधारे ग्रहणम्, तद्दशायां-तस्मिन् सति । एतेनाऽनुमितिकारणयोरविनाभावलक्षणसम्बन्धस्मरण-हेतुग्रहणयोः सम्पत्तिरावेदिता । यद्यपि विशेषावमर्शो विशेषदर्शनम्, तच्च परमते 'साध्यव्याप्यहेतुमान् पक्ष' इति परामर्शात्मकं ज्ञानम्, तथापि जैनसिद्धान्ते परामर्शस्याऽनुमितिकारणत्वानङ्गीकारेणाऽकारणस्य तस्य सत्त्वाभिधानं न प्रकृतोपयोगीत्युक्त एवाऽर्थ आदर्तव्यः ।
___तत्राऽपि इदानीं क्रमयोगपद्यनिरूपकत्वाभावस्य हेतुतया, अर्थक्रियानियामकत्वाभावस्य साध्यतया, नित्यत्वस्य च साध्याधारधर्मितयाऽनुमतत्वात् तदनुसारेणैव व्याप्तिस्मरणहेतुग्रहणे वाच्ये । अनुमानाकारश्च-नित्यत्वमर्थक्रियानियामकं न भवति-क्रमयोगपद्यनिरूपकत्वाभावादिति । तर्कोऽप्यत्र-नित्यत्वं यद्यर्थक्रियाया नियामकं भवेद्, अर्थक्रियाया अनुपरम एव भवेत्, कार्यमात्रस्य सदातनत्वं प्रसज्येतेति यावत् ।
नित्यत्वादाविति । इदं च नित्यत्वं न कूटस्थनित्यत्वं-तस्यैकान्तनित्यत्वपर्यवसितत्वेन जैनोपगमाविषयतया तत्पक्षत्वेऽसत्ख्यात्यापत्तेः, किन्तु अनित्यत्वसहचरितनित्यत्वरूपं कथञ्चिन्नित्यत्वमेव । तव अनित्यत्वसाहचर्यावच्छेदेन क्रमयोगपद्यनिरूपकत्वेऽपि अर्थक्रियानियामकत्वेऽपि च तदभावावच्छेदेन तयोरभावादिति बोध्यम् ।
__"विशेषावमर्शदशायाम्'-अर्थक्रियासामर्थ्याभावरूपसाध्यव्याप्यीभूतक्रमयोगपद्याभावरूपविशेषधर्मनिर्णयरूपपरामर्शदशायामित्यर्थः ।
'नित्यत्वादौ'-कूटस्थनित्यत्वस्य जैनमतेऽप्रसिद्धत्वेऽपि अनित्यत्वसमानाधिकरणनित्यत्वरूपस्य कथञ्चिनित्यत्वस्य प्रसिद्धतया तादृशे नित्यत्वे अनित्यत्वसामानाधिकरण्याभावाऽवच्छेदेन उक्ताभावः सुखेन साधयितुं शक्य इत्यर्थः । १. एकान्तनित्यम्-अर्थक्रियानिरूपकत्वाभाववत्-क्रमयोगपद्याभावादित्यस्य पूर्वतनमनुमानम्-एकान्तनित्यम्
असद्-अर्थक्रियानिरूपकत्वाभाववत्त्वादिति । वस्तुतोऽर्थक्रियासामर्थ्याभाव एवाऽसत्त्वम्, तथा च प्रकृतानुमानमपि एकान्तनित्येऽसत्त्वसाधने एव पर्यवसितम् । किञ्च, एवं पर्यवसानमेवोचितम्-एकान्त