________________
१४६
सटीकजैनतर्कभाषायां खरविषाणे निश्चयाभावात्, तथापि सा विषाणे खरीयत्वप्रकारकतया, तत्र खरीयत्वाभावनिश्चयरूपबाधनिश्चयसद्भावेन, तदानीं 'विषाणे खरीयत्वज्ञानं मे जायता'मितीच्छातः सद्भूता खरीयत्वरूपविशेषणांशे आहार्यारोपरूपैव ।
यद्यपि आहार्यरूपं मानसप्रत्यक्षमेव भवति, न तु परोक्षज्ञानं-तस्याऽनाहार्यस्यैव व्यवस्थितेरिति परोक्षज्ञानरूपाऽनुमितिर्नाऽऽहार्यतया स्वीकर्तुमुचिता, तथापि प्राचीननैयायिकैः 'प्रत्यक्षस्यैव संशयत्वम्, न तु परोक्षज्ञानस्य-परोक्षप्रमाणानां निश्चयमात्रजनकत्वस्वभावा' - दित्येवमुररीकृतेऽपि, सौन्दडोपाध्यायैः यथा सत्प्रतिपक्षस्थले संशयकारानुमितिरुररीक्रियते, तथैकदेशिभिराहार्यारोपाऽप्यनुमितिः कक्षीकृतैव ।
तादृश्यप्यनुमितिर्न निष्फला-सर्वज्ञे परपरिकल्पितस्य देशकालसत्तालक्षणास्तित्वविपरीत-सकलदेशकालसत्त्वाभावात्मकनास्तित्वारोपस्य देशकालसत्तालक्षणास्तित्वसाधनेन, खरविषाणे परपरिकल्पितनिरुक्तनास्तित्वविपरीतदेशकालसत्तालक्षणास्तित्वारोपस्य तद्विपरीतसकलदेशकालसत्त्वाभावलक्षणनास्तित्वसाधनेन च व्यवच्छेदस्यैव तत्फलत्वादित्याहविशेषणाद्यंशे-विषाणे खरीयत्वादिरूपविशेषणांशे । विकल्पात्मिकैवेति । अनिश्चितप्रामाण्याप्रामाण्यकप्रत्ययरूपत्वमेवाऽत्र विकल्पात्मकत्वं बोध्यम्-अनुमितेः शब्दज्ञानानुपातित्वाभावेन परलक्षितस्य 'शब्दज्ञानानुपातित्वे सति वस्तुशून्यप्रत्ययत्व'रूपस्य विकल्पत्वस्याऽभावात् । देशकालेति । यत्किञ्चिद्देशे यत्किञ्चित्काले च सत्त्वेऽप्यस्तित्वं निर्वहतीति सामान्यतो देशकालेत्युक्तम् । सकलदेशकालेति । यत्किञ्चिद्देशकालसत्त्वं सत्त्वावच्छेदकदेशकालभिन्नदेशकालासत्त्वं च न विरुद्धमिति सतोऽपि देशान्तरकालान्तरसत्त्वाभावमादाय नास्तित्वं प्रसज्येतेत्यतः सकलदेशकालेत्युक्तम् । अन्यत् सुगमम् ।
विकल्पप्रसिद्धस्य धर्मिणः खण्डशः प्रसिद्धतया भानमिति तृतीयकल्पमेव स्वसिद्धान्तीकुर्वन् आह
वस्तुतस्तु खण्डशः प्रसिद्धपदार्थास्तित्वनास्तित्वसाधनमेवोचितम् । एतत्पक्षे एव भाष्यसम्मतिमुपदर्शयति
अत एव असतो नत्थि निसेहो' इत्यादिभाष्यग्रन्थे 'खरविषाणं नाऽस्ती'त्यत्र खरे विषाणं नाऽस्ती'त्येवाऽर्थ उपपादितः ।
अत एव-खण्डशः प्रसिद्धपदार्थास्तित्वनास्तित्वसाधनस्यैवोचितत्वादेव । भाष्यग्रन्थे इत्यस्य उपपादित इत्यनेनाऽन्वयः । एतत्पक्षेऽनुमितेराहार्यारोपरूपत्वाभावेऽपि न क्षतिः ।
नन्वत्र कल्पेऽसतो निषेधासम्भवं कक्षीकृत्योररीकृते, 'खरविषाणं नाऽस्ती'त्यनुमानस्य