________________
विकल्पसिद्धधर्मचर्चा
नास्तित्वस्य साधनेन परपरिकल्पितविपरीतारोपव्यवच्छेदमात्रस्य फलत्वात् ।
आदिपदादनुमानस्योपग्रहः, तथा च शब्दादनुमानाद् वेति तदर्थः । विशिष्टस्य = खरीयत्वविशिष्टविषाणादेः, तस्य - विकल्पसिद्धस्य । विशेषणस्य संशये 'विषाणं खरीयं न वे' त्येवं विषाणरूपविशेष्ये खरीयत्वरूपविशेषणस्य संशये सति, अभावनिश्चये वा = 'विषाणं खरीयं ने'त्याकारकविषाणविशेष्यकखरीयत्वाभावप्रकारकबाधनिश्चये सति वा, वैशिष्ट्यभानानुपपत्तेः=खरीयत्वविशिष्टविषाणस्य प्रतियोगितया वैशिष्ट्यस्य यद् अभावे भानं शाब्दबोधे, यच्च खरीयत्वविशिष्टविषाणे नास्तित्वस्य वैशिष्ट्यभानमनुमितौ तस्याऽनुपपत्तेः ।
१४५
विशिष्टवैशिष्ट्यावगाहिबोधे विशेषणतावच्छेदकप्रकारकनिश्चयस्य कारणत्वेन, प्रकृतेऽभावे विशेषणं विषाणम्, तत्र विशेषणं खरीयत्वमिति तद् विशेषणतावच्छेदकम्, तत्प्रकारको निश्चयो विषाणं खरीयमित्याकारकः, स च 'विषाणं खरीयं न वे 'ति संशयकाले 'विषाणं खरीयं ने' ति बाधनिश्चयदशायां वा नाऽस्तीति तदानीं 'खरविषाणं नाऽस्तीति वाक्यतः प्रतियोगित्वसम्बन्धेन खरीयत्वविशिष्टविषाणप्रकारका भावविशेष्यकबोधलक्षणविशिष्टवैशिष्ट्यबोधस्याSनुपपत्तिः ।
विशिष्टस्य वैशिष्ट्यं विशिष्टवैशिष्ट्यम्, तदवगाहिबोधे विशेषणतावच्छेदकप्रकारकनिश्चयस्य कारणत्वमित्याश्रित्य विशिष्टवैशिष्ट्यावगाहिशाब्दबोधानुपपत्तिरुक्तदिशा भाविता । खरीयत्वविशिष्टविषाणविशेष्यकनास्तित्वप्रकारकानुमितौ गतिः तु - विशिष्टे वैशिष्ट्यं विशिष्टवैशिष्ट्यम्, तदवगाहिबोधे विशेषणतावच्छेदकप्रकारकनिश्चयस्य कारणत्वमिति खरीयत्व - विशिष्टविषाणे नास्तित्वस्य वैशिष्ट्यावगाह्यनुमितिर्भवति विशिष्टवैशिष्ट्यावगाहिर्बोधः। तस्य 'विषाणं खरीयं न वेति संशयकाले 'विषाणं खरीयं ने 'ति बाधनिश्चयकाले वा 'विषाणं खरीय'मित्याकारकखरीयत्वलक्षणविशेषणतावच्छेदकप्रकारकनिश्चयरूपकारणाभावाद् भवत्य
नुपपत्तिरिति ।
तथा चाऽनाहार्यभ्रमरूपायाः प्रमारूपाया वोक्तानुमितेरसम्भवेऽपि, आहार्यारोपरूपा सोक्तसंशयबाधनिश्चयकालयोः स्यादेव । बाधनिश्चयकाले इच्छाजन्यज्ञानस्यैवाऽऽहार्यतया, तस्य बाधनिश्चयाप्रतिबध्यत्यवेन, तत्काले सम्भवो न विरुध्यते । प्रकृते खरविषाणविशेष्यकनास्तित्वप्रकारकानुमितिर्यद्यपि नास्तित्वरूपप्रकारांशे नाऽऽहार्यरूपा - नास्तित्वाभावस्याऽस्तित्वस्य रूपत्वाभावेऽपि वस्तुशून्यविकल्पसदृशतया विकल्पात्मिकेत्युक्तम् । तथा च विकल्पाकारवृत्तिसदृशी इत्यर्थः ।
१. खरीयत्वविशिष्टविषाणप्रतियोगिकोऽभावः ।