________________
१४४
सटीकजैनतर्कभाषायां
विकल्पसिद्धर्मिणो भानं त्रिधा सम्भाव्येत । तद्यथा-१. 'शशशृङ्ग नाऽस्ती'ति वाक्याद् जायमाने, 'शशशृङ्गं नाऽस्ति-अनुपलम्भा'दित्यनुमानसमुद्भवे वा बोधेऽखण्डस्य शशशृङ्गस्य भानम् । अर्थात् प्रतियोगित्वसम्बन्धेनाऽखण्डशशशृङ्गप्रकारकोऽभावविशेष्यकः शाब्दबोधः, अखण्डशशशृङ्गविशेष्यिका नास्तित्वप्रकारिकाऽनुमितिर्वा । २. विशिष्टरूपतया वा शशशृङ्गस्य भानम् । अर्थादुक्तवाक्यजन्यबोधे शशीयत्वविशिष्टशृङ्ग प्रतियोगित्वसम्बन्धेनाऽभावे प्रकारतया भासते, अनुमितौ तु शशीयत्वविशिष्टशृङ्गे नास्तित्वं प्रकारतया भासते । ३. खण्डशः प्रसिद्धतया वा शशशृङ्गस्य भानम् । अर्थात् शाब्दबोधे-अभावे प्रतियोगितया शृङ्गस्य, शृङ्गे च शशपदलक्षणोपस्थितस्य शशसम्बन्धिनः तादात्म्येन भानम्; अनुमितौ पुनः शशीयत्वं नास्तित्वरूपाभावे प्रतियोगितया, अभावस्य पुनः शृङ्गे प्रकारतया, शृङ्गे शशीयत्वं नाऽस्तीत्येवं भानम्, अथवा शशस्याऽभावविशेष्यतया, शृङ्गस्य चाऽभावविशेषणतया, शशे शृङ्गं नाऽस्तीत्येवं भानम् ।
तत्राऽखण्डस्य खरविषाणादेर्भानमिति प्रथमपक्षो न सम्भवतीत्याहविकल्पसिद्धस्य धर्मिणो नाऽखण्डस्यैव भानम्-असत्ख्यातिप्रसङ्गादिति ।
भानमिति । एवमभ्युपगमेऽसत्ख्यातिवाद आदृतः स्यात्, स च जैनानामनिष्ट इत्याहअसदिति । असतः खरविषाणादेः, ख्याति:-ज्ञानं, तस्य प्रसङ्गादित्यर्थः । ।
विकल्पप्रसिद्धस्य शाब्दबोधादौ विशिष्टरूपतया भानमिति द्वितीयपक्षमधिकृत्याऽऽह
शब्दादेविशिष्टस्य तस्य भानाभ्युपगमे, विशेषणस्य संशयेऽभावनिश्चये वा वैशिष्ट्यभानानुपपत्तेः, विशेषणाद्यंशे आहार्यारोपरूपा विकल्पात्मिकैवाऽनुमितिः स्वीकर्तव्या-देशकालसत्तालक्षणास्तित्वस्य सकलदेशकालसत्ताऽभावलक्षणस्य च नाऽखण्डस्याऽसतः शशशृङ्गस्य भानम्, न वा शशीयत्ववैशिष्ट्यस्य आहार्यभानम्, किन्तु प्रसिद्ध एव शृङ्गांशे प्रसिद्धस्यैव शशीयत्वस्य अभावो भासते । तथा च 'ऐकान्तनित्यमर्थक्रियासमर्थं न भवति, क्रमयोगपद्याभावात्' इत्यादिरूपायां जैनस्थापनायामेकान्तनित्यस्य जैनमते सर्वथाऽसम्भवेऽपि तादृशस्थले अनित्यत्वासमानाधिकरणरूपनित्यत्वस्य खण्डशः प्रसिद्धतया खण्डशः प्रसिद्धतादृशपक्षविषयातायाः अर्थक्रियासामर्थ्याभावसाध्यिकायाः क्रमयोगपद्यनिरूपकत्वाभावहेतुकायाः 'एकान्तनित्यत्वमर्थक्रियासामर्थ्यानियामकं क्रमयोगपद्यनिरूपकत्वाभावात्' इत्याकारिकायाः अनुमितेर्निर्बाधसम्भवेन न तादृशी जैनस्थापना विरुध्यते ।
'शब्दादेः'-शब्दात्, 'आदि'पदेन व्याप्तिज्ञानादेः परिग्रहात् व्याप्तिज्ञानादेः सकाशादित्यर्थः । 'विकल्पात्मिकैव'-अनुमितेः शब्दज्ञानानुपातित्वानियमेन शब्दज्ञानानुपाति विकल्प