________________
विकल्पसिद्धर्मिचर्चा
१४१ तथाच यथा तत्र वह्निधूमसामान्ययोरेव व्याप्तिग्रहः, हेतोः पर्वते ग्रहणाच्च पर्वतीयवह्निसिद्धिः, तथा प्रकृतानुमानेऽप्यस्तित्व-सुनिश्चितासम्भवद्वाधकप्रमाणत्वयोरेव व्याप्तिग्रहः, सर्वज्ञे धर्मिणि सुनिश्चितासम्भवद्वाधकप्रमाणत्वग्रहाच्च तत्र सत्त्वसिद्धिरिति किमनुपपन्नमिति भावः ।
पुनर्दुर्दुरूढो बौद्धः सत्त्वसाधकहेतूनेव विकल्पकवले प्रक्षिपन् सर्वज्ञर्मिकसत्त्वसाधकानुमित्युन्मूलनाय शङ्कते
अथ तत्र सत्तायां साध्यायां तद्धेतुः-भावधर्मः, भावाभावधर्मः, अभावधर्मो वा स्यात् ? आद्येऽसिद्धिः-असिद्धसत्ताके भावधर्मासिद्धेः । द्वितीये व्यभिचार:-अस्तित्वाभाववत्यपि वृत्तेः । तृतीये च विरोधो-अभावधर्मस्य भावे क्वचिदप्यसम्भवात् । तदुक्तम्
"नाऽसिद्धे भावधर्मोऽस्ति, व्यभिचार्युभयाश्रयः। धर्मो विरुद्धोऽभावस्य, सा सत्ता साध्यते कथम् ? ॥" इति चेद्,
तत्र-सर्वज्ञे, तद्धेतुः सत्त्वसाधकहेतुः । आद्ये-भावधर्मस्य हेतूकरणे असिद्धिः सर्वज्ञे धर्मिणि भावधर्मरूपहेतोः सिद्ध्यभावः । तत्र हेतुमाह-असिद्धसत्ताक इति । असिद्धा सत्ता यस्य सोऽसिद्धसत्ताकः, तस्मिन् सर्वज्ञे धर्मिणि, भावधर्मासिद्धेः भावधर्मो हि भावरूपधर्मिणि वर्तते, सर्वज्ञस्य त्वद्याऽपि सत्तैव न सिद्धा, तामन्तरेण न भावत्वमिति भावधर्मलक्षणहेतोः तत्राऽसिद्धः ।
द्वितीये-भावाभावधर्मस्य सत्तासाधकहेतुत्वमिति कल्पे, व्यभिचार:=अस्तित्वलक्षणा सत्ता विधिस्वरूपे भावे एव वर्त्तते, भावाभावधर्मश्च भावेऽस्तित्वाभाववत्यभावे च वर्त्तते इत्यनैकान्तिकत्वम् । व्यभिचारमेव ग्राहयति-अस्तित्वाभावेति । तृतीये अभावधर्मो हेतुरिति पक्षे पुनः, विरोधः अस्तित्वरूपसाध्यासामानाधिकरण्यम् । अत्रैव हेतुमाह-अभावधर्मस्येति । उक्तार्थम् ।
___वृद्धवचनेन संवादयति-तदुक्तमिति । असिद्धे इति । असिद्धसत्ताके सर्वज्ञधर्मिणि भावधर्मलक्षणो हेतुर्नाऽस्ति । उभयाश्रयः भावाभावोभयधर्मलक्षणो हेतुर्व्यभिचारी= अनैकान्तिकः । अभावस्य धर्मो अभावधर्मलक्षणो हेतुविरुद्धः सत्तारूपसाध्यासमानाधिकरणः । ततश्च, सा सत्ता-सर्वज्ञवर्तिनी सत्ता, कथं साध्यते-न कथञ्चिदपि साधयितुं शक्येति।
उक्ताशङ्कां प्रतिक्षिपतिन, इत्थं वह्निमद्धर्मत्वादिविकल्पैर्धूमेन वढ्यनुमानस्योच्छेदापत्तेः ।