________________
१४०
सटीकजैनतर्कभाषायां प्रमाणोभयसिद्धयोधर्मिणोः साध्ये कामचारः । विकल्पसिद्धे तु धर्मिणि सत्तासत्तयोरेव साध्यत्वमिति नियमः । तदुक्तं 'विकल्पसिद्धे तस्मिन् सत्तेतरे साध्ये इति ।
प्रमाणोभयसिद्धयोः-प्रमाणसिद्ध-प्रमाणविकल्पोभयसिद्धयोः । विकल्पसिद्ध धर्मिणि सत्त्वासत्त्वयोरेव साध्यत्वमित्यत्र प्राचां वचनं संवादकतया दर्शयति-तदुक्तमिति । तस्मिन्धर्मिणि, सत्तेतरे सत्त्वासत्त्वे ।।
विकल्पसिद्धे सर्वज्ञधर्मिणि सत्त्वसाधनमसहमानस्य बौद्धस्य मतं प्रतिक्षेप्तुमुपन्यस्यति
अत्र बौद्धः-सत्तामात्रस्याऽनभीप्सितत्वाद् विशिष्टसत्तासाधने वाऽनन्वयाद्, विकल्पसिद्ध धर्मिणि न सत्ता साध्या-इत्याह;
अत्र-धर्मिणो विकल्पसिद्धत्वे । बौद्ध इत्यस्य आह इत्यनेन सम्बन्धः । तद्वक्तव्यमुपदर्शयति-सत्तामात्रस्येति । अनभीप्सितत्वाद-वादिनो जैनस्याऽनभिलषितत्वाद् । विशिष्टसत्तासाधने सर्वज्ञवृत्तित्वविशिष्टसत्तासाधने, वा-अथवा, अस्य पूर्वमेवाऽन्वयः, अनन्वयात्= सुनिश्चितासम्भवद्बाधकप्रमाणत्वेन हेतुना सममन्वयस्य-व्याप्तेरसिद्ध्याऽभावात् । न हि 'यत्र सुनिश्चितासम्भवद्वाधकप्रमाणत्वं तत्र सर्वज्ञवृत्तित्वविशिष्टसत्त्वमित्यन्वयग्रहोऽस्ति । दृष्टान्ते एव तु व्याप्तिग्रहो वाच्यः, [स च न सम्भवति-] तत्र सर्वज्ञवृत्तित्वविशिष्टसत्त्वस्याऽभावात् । पक्षे एव तु व्याप्तिग्रहाभ्युपगमे, तत एव सर्वज्ञस्याऽसिद्धत्वादनुमानवैफल्यमित्यभिसन्धिः । ततश्च विकल्पसिद्धे सर्वज्ञे धर्मिणि न सत्ता साध्या सत्त्वं साध्यम्=अनुमितिविषयो न भवति ।
तदसत्, इत्थं सति प्रकृतानुमानस्याऽपि भङ्गप्रसङ्गाद्-वह्निमात्रस्याऽनभीप्सितत्वाद्, विशिष्टवढेचाऽनन्वयादिति ।
__ तदसद् एतद् बौद्धमतमयुक्तम् । तत्र हेतुमाह-इत्थं सतीति । उक्तप्रकारेण सर्वज्ञधर्मिणि सत्त्वानुमानस्य निराकरणे सति, प्रकृतानुमानस्याऽपि='पर्वतो वह्निमा'निति सर्वजनप्रसिद्धानुमानस्याऽपि । अत्र सर्वजनप्रसिद्धत्वमेव प्रकृतत्वं-'पर्वतो वह्निमा नित्यनुमानस्येदानीं प्रस्तावाभावेन प्रस्तुतत्वलक्षणप्रकृतत्वस्य तत्राऽघटनात् ।
कथं 'पर्वतो वह्निमा'नित्यनुमानस्य भङ्ग इत्यपेक्षायामाह-वह्नीति । वह्निमात्रस्यवह्निसामान्यस्य, अनभीप्सितत्वात्-पर्वतगततया वह्नः साधनाय यतमानस्य वादिनः 'पर्वते वह्निमनुमिनुया'मितीच्छाया एव भावेन वह्निसामान्यस्य तदविषयत्वाद्, वह्निसामान्यस्य सिद्धत्वेन तत्रेच्छाया असम्भवाच्च । विशिष्टवह्वेश्च-पर्वतीयत्वविशिष्टवह्वेश्च, अनन्वयाद्-धूमेन हेतुना सममन्वयस्य व्याप्तेरसिद्ध्याऽभावाद, महानसरूपदृष्टान्ते एव तयोरन्वयग्रहो वाच्यः, स च न सम्भवति-महानसे धूमस्य सत्त्वेऽपि पर्वतीयवह्निरूपसाध्यस्याऽभावादित्यर्थः ।