________________
पक्षप्रसिद्धिप्रकाराः
१३९ विकल्पसिद्धो धर्मी ।
___ स-शब्दः, हि-यतः । वर्तमान इति । वादिप्रतिवादिकर्णविवरवर्ती सन् वर्तमानकालीत्यर्थः । यस्तु वर्तमानोऽपि न वादिप्रतिवादिकर्णविवरवर्ती स भूतभविष्यशब्दवद् विकल्पसिद्ध एवेति बोध्यः ।
_ 'सर्वज्ञोऽस्ती'त्यनुमानम्, सर्वज्ञानभ्युपगन्तृमीमांसकादीन् प्रतिवादिनः प्रति, सर्वज्ञाभ्युपगन्त्रा जैनादिना क्रियते । ततो यद्यपि वाद्यपेक्षयाऽऽगमप्रमाणसिद्ध एव सः, तथापि सर्वज्ञप्रतिपादक आगमो न मीमांसकादीन् प्रति निश्चितप्रामाण्यक इति विकल्पसिद्धत्वं तस्य पूर्वमभिहितम् ।
'खरविषाणं नाऽस्ती'त्यनुमानं तु-'असतः खरविषाणादेः ख्यातिरेव नाऽस्तीति तस्य सत्त्वमसत्त्वं वेति पृच्छायां मूकीभवनमेव न्याय्यम्, तत्र विधिनिषेधवचनान्यतरोद्गारवाच्यत्वे प्रमेयत्वस्याऽपि प्रसक्ततया निर्धर्मकत्वाभावतोऽलीकत्वमेव भज्येते'त्यादियुक्तिजालं पुरस्कुर्वतो नैयायिकादीन् प्रति-स्याद्वादिना क्रियते । 'असतो नाऽस्ति निषेध' इति त्वेकनयमाश्रित्य । अत्रैव' वा ग्रन्थकारोऽस्योपपत्ति करिष्यति । अन्यथा 'विधिनिषेधयोरेकाभावेऽपरस्याऽवश्यम्भाव' इति निषेधाभावे सत्त्वमेव प्रसज्यते । तत्र कथायां मूकीभवने निगृहीत एव वादी स्यादतोऽनुमानेन नास्तित्वं तस्य साधनीयमेव । तथा च निश्चितप्रामाण्यकप्रत्यक्षादिसिद्धत्वं वादिप्रतिवाद्युभयापेक्षयाऽपि खरविषाणादेर्नाऽस्त्येव । अस्ति च 'खरविषाण'मिति प्रत्ययः । स ‘च खरविषाणनास्तित्वानुमितितः प्राग् यथा प्रामाण्येन न निश्चित: तथाऽप्रामाण्येनाऽपीति भवति तद्विषयत्वाद् विकल्पसिद्धत्वमित्यभिप्रायेण खरविषाणस्याऽपि विकल्पसिद्धत्वं प्रागभिहितम् ।
'शब्दः परिणामी'त्यनुमानं तु नैयायिकादीन् प्रति जैनेन क्रियते । तत्र तु शब्दत्वेन सर्वोऽपि शब्दः पक्षीकृत इति वर्तमानस्य तस्य वादिप्रतिवाद्युभयापेक्षयैव प्रत्यक्षप्रमाणसिद्धत्वेऽपि, भूतभविष्ययोश्च शब्दयोः पक्षीकृतयोर्न विशेषतोऽस्मदादिप्रत्यक्षविषयत्वमिति तज्ज्ञानमनिश्चितप्रामाण्याप्रामाण्यकमेव तं प्रतीति तद्विषयत्वात् तयोविकल्पसिद्धत्वमिति कृत्वा शब्दरूपो धर्मी प्रमाणविकल्पोभयसिद्ध इत्यर्थः ।
यश्च प्रमाणसिद्धो धर्मी यो वा प्रमाणविकल्पोभयसिद्धः, तत्राऽमुकमेव साध्यं भवितुमर्हतीति नाऽस्ति नियमः; किन्तु यं यं धर्मं तत्र साधयितुमिच्छति वादी, स सर्वोऽपीच्छाविषयो धर्मः साध्यो भवितुमर्हति । विकल्पमात्रसिद्धे तु धर्मिण्यस्तित्वनास्तित्वान्यतरस्यैव साध्यत्वम्-अलब्धसत्ताके तस्मिन् धर्मान्तरस्य साधनायोग्यत्वादित्याह
१. असतो नाऽस्ति निषेध इति पक्षे एव ।