________________
१४२
सटीकजैनतर्कभाषायां इत्थम् उक्तविकल्पत्रयकवलीकरणेन सत्तासाधकहेत्वपाकरणेन सत्तासाध्यकानुमाननिराकरणे । वह्निमद्धमत्वादिविकल्पैरिति । 'पर्वतो-वह्निमान्-धूमा'दित्यत्र वह्नौ साध्ये, तद्धेतुधूमो वह्निमद्धर्मो वह्निमदवह्निमद्धर्मोऽवह्निमद्धर्मो वा स्यात् । आद्य-पर्वतस्याऽनुमानात् प्राग् वह्निमत्त्वानिश्चये, तदीयो धूमो न वह्निमद्धर्मतया निश्चित:, किन्तु महानसीयधूम एव, स पर्वतेऽसिद्धः कथं वह्नि साधयेत् ? द्वितीये व्यभिचारः-वल्यभाववत्यपि तस्य वृत्तेः । तृतीये विरुद्धः-अवह्निमद्धर्मस्य धूमस्य क्वचिदपि वह्निमत्यभावादित्येवं विकल्पग्रासै—मेन वयनुमानस्याऽप्युच्छेदप्रसङ्गादित्यर्थः ।
_ 'प्रमेयसिद्धिः प्रमाणाद् ही ति वचनात् प्रमाणेनैव वस्तुसिद्धिर्भवति । विकल्पस्तु न प्रमाणम्, ततो विकल्पसिद्धिर्न भवत्येव । तथा च प्रमाणप्रसिद्धत्वमेकमेव धर्मिणो, न विकल्पप्रसिद्धत्वं नाऽपि प्रमाणविकल्पोभयप्रसिद्धत्वमिति नैयायिकमतस्योपन्यासपूर्वकमयुक्तत्वं प्रपञ्चयति
विकल्पस्याऽप्रमाणत्वाद् विकल्पसिद्धो धर्मी नाऽस्त्येवेति नैयायिकः । तस्येत्थंवचनस्यैवाऽनुपपत्तेः तूष्णीम्भावापत्तिः-विकल्पसिद्धर्मिणोऽप्रसिद्धौ तत्प्रतिषेधानुपपत्तेरिति ।
तस्य-नैयायिकस्य, इत्थंवचनस्य='विकल्पसिद्धो धर्मी नाऽस्ती'त्येवंरूपवचनस्य । कथमीदृग्वचनस्याऽनुपपत्तिरित्याकाङ्क्षायामाह-विकल्पसिद्धर्मिण इति । प्रसिद्धस्यैव प्रतिषेधो भवति–प्रतियोगिनिरूप्यत्वादभावस्य, विकल्पस्याऽप्रसिद्धौ तन्निरूप्यनिरूपणानुपपत्तिः । 'विकल्पसिद्धो धर्मी नाऽस्ती'त्यनेन वचनेन विकल्पसिद्धर्मिणो निषेधः क्रियते नैयायिकेन, तन्निषेधस्य च प्रतियोगी विकल्पसिद्धो धर्मी, तस्य चाऽप्रसिद्धौ तत्प्रतिषेधस्य 'विकल्पसिद्धो धर्मी नाऽस्ती'त्येवंरूपस्याऽनुपपत्तेः । 'एतद्विषये भवतु तूष्णीम्भावापत्तिरेवाऽस्माक'मित्येवमिष्टपादप्रसारिका च न निस्ताराय नैयायिकस्य-कथायां तूष्णीम्भावस्याऽपि निग्रहस्थानत्वादिति भावः ।
नन् 'असतो नत्थि निसेहो' इति १भवतामपि सिद्धान्तवचनमसन्निषेधप्रतिक्षेपकं जागर्येव । तथा च नैयायिकवद् भवन्तोऽपि नाऽसत्ख्यातिमुररीकुर्वन्तीति अभावांशेऽसतः प्रतियोगिनो विशेषणतया भानस्याऽसत्ख्यातिभयादनभ्युपगमे सति, 'शशशृङ्ग नाऽस्ती'ति वाक्यात् प्रतियोगितासम्बन्धेन शशशृङ्गप्रकारकाभावविशेष्यकबोधस्याऽनुपपत्तौ, तदर्थं
१. जैनानाम् । २. असतः ख्यातिरित्यसत्ख्यातिः ।