________________
सटीकजैनतर्कभाषायां
परार्थत्वेनैकाधिकरणावृत्तित्वम् । तथा च सति दृष्टान्ते साध्याभावात् साध्यवैकल्यलक्षणो दृष्टान्तदोष इत्यर्थः ।
१३६
नन्वप्रतीतत्वादिकं परार्थानुमाने साध्यस्य विशेषकं भवति तत्रैव विपरीतानध्यवसितादीनां साध्यता, प्रतिवादिना प्रत्यक्षादिप्रमाणेन साध्यस्य यद् निराकरणं तदभावः, साध्यस्य वाद्यभिमतत्वं च । इदानीं तु स्वार्थानुमानं निरूप्यते भवता, तत्राऽनवसर एवेह - साध्यस्वरूपोपवर्णनस्येत्याशङ्कापनोदायाऽऽह—
स्वार्थानुमानावसरेऽपि परार्थानुमानोपयोग्यभिधानं परार्थस्य स्वार्थपुरः सरत्वेनाऽनतिभेदज्ञापनार्थम् ।
स्वार्थानुमानावसरेऽपि = स्वार्थानुमाननिरूपणकालेऽपि परार्थानुमानोपयोग्यभिधानं = परार्थानुमाने साध्यरूपविशेषकतयोपयुक्तस्याऽप्रतीतत्वादिविशेषणस्य यद् अभिधानं तत्, परार्थस्य परार्थानुमानस्य, स्वार्थपुरस्सरत्वेन = स्वयं साध्यमनुमाय परस्य तत्प्रतिपत्तये यथासमयं प्रतिज्ञाद्यवयववाक्यं प्रयुङ्क्ते इत्येवं स्वार्थानुमानपूर्वकत्वेन, अनतिभेदज्ञापनार्थं=स्वार्थस्य स्वयमेव लिङ्गग्रहणादितो जायमानस्य, परार्थस्य च परप्रयुक्तावयवप्रभवलिङ्गज्ञानादितो जायमानस्य यत्किञ्चिद्विशेषसद्भावेऽप्यत्यन्तवैलक्षण्यं नाऽस्तीत्येतज्ज्ञापनार्थम् ।
पर्वतो-वह्निमान् धूमादित्यादौ साध्यं - वन्यात्मको धर्मो वा पर्वतरूपो धर्मी वा वह्निविशिष्टपर्वतो वा ? नाऽऽद्यः - वह्निरूपधर्ममात्रस्य वादिप्रतिवादिभ्यामविगानेन प्रतीततया सिद्धस्य तस्य साध्यत्वायोगात् । अत एव न द्वितीयः - पर्वतरूपधर्मिणोऽपि वादिप्रतिवादिनोः सिद्धत्वात् । किञ्च, साध्येन सहाऽविनाभावो हेतोरपेक्षितोऽनुमाने, न च पर्वतरूपधर्मिणा समं धूमस्याऽविनाभाव इति कथं पर्वतस्य साध्यता ? अत एव न तृतीयोऽपि वह्निविशिष्टपर्वतेनाऽपि समं धूमस्याऽविनाभावाभावादित्याशङ्कापनोदायाऽऽह—
व्याप्तिग्रहणसमयापेक्षया साध्यं धर्म एव, अन्यथा तदनुपपत्तेः । आनुमानिकप्रतिपत्त्यवसरापेक्षया तु पक्षापरपर्यायः तद्विशिष्टः प्रसिद्धो धर्मी ।
वह्निरूपधर्मेण सममेव धूमहेतोर्व्याप्तिर्गृह्यते, न तु पर्वतरूपधर्मिणा सममतो व्याप्तिग्रहकालापेक्षया वह्निरूपधर्म एव साध्यम् । धर्मविशिष्टधर्मिणोऽसिद्धस्य साध्यत्वे तदेकदेशे धर्मे उपचारात् साध्यपदप्रयोगोऽप्युपपद्यते इत्याशयः । अन्यथा - वह्निरूपधर्मस्य साध्यत्वानङ्गीकारे, तदनुपपत्तेः-हेतोः साध्येन समं व्याप्तिग्रहणस्याऽनुपपद्यमानत्वात् । यतोऽसिद्धत्वाद् वस्तुतः साध्यं वह्निविशिष्टः पर्वत एव, न च तेन समं धूमहेतोर्व्याप्तिग्रहणमुपपद्यते इत्यर्थः ।