________________
१३७
साध्यस्वरूपचर्चा
आनुमानिकप्रतिपत्त्यवसरापेक्षया पर्वतो वह्निमानित्यनुमित्यपेक्षया, पक्षापरपर्याय:=पक्ष इति द्वितीयं नाम यस्य सः, तद्विशिष्टः वह्निरूपधर्मविशिष्टः, प्रसिद्धः= प्रत्यक्षादिप्रमाणसिद्धो विकल्पसिद्धो वा-'अस्ति सर्वज्ञ' इत्यादौ पूर्वं विकल्पसिद्धस्याऽपि सर्वज्ञादेर्धर्मित्वाभ्यनुज्ञानात्, धर्मी-पर्वतः, साध्यमित्यनुवर्तते । केवलस्य तु धर्मिणः साध्यत्वाभ्युपगमे न किञ्चित् प्रयोजनमिति तस्य साध्यत्वं नाऽङ्गीक्रियते । वह्निपर्वतयोविशकलितयोः पूर्वं सिद्धत्वेऽपि वह्निविशिष्टपर्वतस्याऽनुमितितः प्रागसिद्धत्वेन युक्तं तस्याऽनुमित्यपेक्षया साध्यत्वमित्याशयः ।
एवं च यान्यङ्गानि, तानि दर्शयति
इत्थं च स्वार्थानुमानस्य त्रीण्यङ्गानि-धर्मी साध्यं साधनं च । तत्र साधनं गमकत्वेनाऽङ्गम्, साध्यं तु गम्यत्वेन, धर्मी पुनः साध्यधर्माधारत्वेन-आधारविशेषनिष्ठतया साध्यसिद्धेरनुमानप्रयोजनत्वात् ।
इत्थम् उक्तदिशा साधनादीनां स्वरूपनिर्धारणे । साधनादीनां कथं स्वार्थानुमानाङ्गत्वमित्यपेक्षायामाह-तत्रेति । तत्र-धर्मिसाध्यसाधनानां मध्ये । अन्ते उद्दिष्टस्याऽपि साधनस्य प्रथममङ्गत्वोपपादनमनुमितिहेतुत्वेन तत्र तस्य प्राधान्यमिति ख्यापनाय । गम्यत्वेन= अनुमितिविषयत्वेन, अङ्गमित्यनुवर्तते । साध्यमनुमित्या कुत्र विधेयमित्याकाङ्क्षायामाधारोऽप्यवश्यं साध्यस्योद्देश्यतयाऽनुमितावङ्गमित्याह-धर्मीति । अङ्गमिति सम्बध्यते । अत्र हेतुमाहआधारविशेषेति ।
पक्षो हेतुरिति द्वयमेव स्वार्थानुमानेऽङ्गम् । पक्षश्च साध्यविशिष्टो धर्मी । तथा च विशेषणविशेष्याभ्यां कथञ्चिदभिन्नस्य विशिष्टस्याऽङ्गत्वे, तदभिन्नस्य वढ्यादिसाध्यस्वरूपधर्मात्मकविशेषणस्य पर्वतादिधर्मिविशेषस्वरूपविशेष्यस्य चाऽङ्गत्वं प्राप्तमेवेति पक्षान्तरमुपदर्शयति
अथवा पक्षो हेतुरित्यङ्गद्वयं स्वार्थानुमाने साध्यधर्मविशिष्टस्य धर्मिणः पक्षत्वाद्, इति धर्मधर्मभेदाभेदविवक्षया पक्षद्वयं द्रष्टव्यम् ।
___साध्यरूपधर्मस्य पृथमङ्गत्वं धर्मिविशेषस्य च पृथगङ्गत्वमिति धर्मधर्मिणोर्भेदविवक्षया प्रथमः पक्षः । तदभिन्नाभिन्नस्य तदभिन्नत्वमिति नियमतो विशेषणाभिन्नविशिष्टाभिन्नस्य विशेष्यरूपर्मिणो विशेषणीभूतधर्माभिन्नत्वमित्येवं धर्मधर्मिणोरभेदविवक्षया च द्वितीयः पक्षः । स्याद्वादे सर्वस्य घटमानत्वादित्याशयेनाऽऽह-धर्मधर्मीति ।
पूर्व पक्षापरपर्यायः तद्विशिष्टः प्रसिद्धो धर्मीत्युक्तम्, तत्र धर्मिणः प्रसिद्धिः कथमित्य