________________
साध्यलक्षणचर्चा
१३५ मित्यर्थः । तत्र हेतुमाह-वक्तुरेवेति । अस्य इच्छासम्भवादित्येतद्धटकेच्छायामन्वयः । स्वाभिप्रेतेत्यत्र स्वपदेन वक्तुर्ग्रहणम् ।
ततश्च परार्थाश्चक्षुरादय इत्यादौ पारार्थ्यमात्राभिधानेऽप्यात्मार्थत्वमेव साध्यं सिद्ध्यति । अन्यथा संहतपरार्थत्वेन बौद्धैः चक्षुरादीनामभ्युपगमात् साधनवैफल्यात्, इत्यनन्वयादिदोषदुष्टमेतत् साङ्ख्यसाधनमिति वदन्ति ।
__ ततश्च-अभीप्सितत्वस्य वाद्यभीप्सितत्वरूपत्वतश्च, परार्थाश्चक्षुरादय इत्यादौ-बौद्धं प्रति 'चक्षुरादयः परार्थाः सङ्घातत्वा'दिति साङ्ख्याभिमतानुमाने, पारार्थ्यमात्राभिधानेऽपि पारार्थ्यमात्रस्य साध्यतयाऽभिधानेऽपि, मात्रपदेनाऽऽत्मलक्षणपरार्थत्वाभिधानस्य व्यवच्छेदः । सिद्ध्यतीति । ततश्चेत्यस्याऽत्राऽन्वयादात्मसाधनार्थमुक्तानुमानप्रयोक्तुर्वादिन आत्मार्थत्वस्यैवाऽभीप्सितत्वादात्मार्थत्वमेव साध्यं सिद्ध्यतीत्यर्थः ।
___ अन्यथा-वाद्यभीप्सितत्वरूपतयाऽभीप्सितत्वस्याऽविवक्षायाम् । संहतपरार्थत्वेनेति । बौद्धैः चक्षुरादीनां संहतपरार्थत्वेनाऽभ्युपगमात् साधनवैफल्यादित्यन्वयः । यदि वाद्यपेक्षयेव प्रतिवाद्यपेक्षयाऽभीप्सितमुपगतं भवेत् तदा प्रतिवादिनो बौद्धस्य चक्षुरादीनां परार्थत्वं संहतपरार्थत्वमेवाऽभीप्सितमिति तदपि साध्यं भवेत् । तत्साधनेन च साङ्ख्यस्य नाऽऽत्मा सिद्ध्यति, ततः तत्साधनं विफलमेव साङ्ख्यस्य स्यादित्यर्थः ।।
___एतावताऽऽत्मार्थत्वस्य साध्यत्वं समर्थितम्, तेन समं च सङ्घातत्वहेतोर्न दृष्टान्ते शयनीयादावन्वय इति रत्नाकरकारा अनन्वयादिदोषदुष्टमेतत्-परार्थाः चक्षुरादय इति साङ्ख्यसाधनमिति वदन्तीत्यर्थः । तथा च रत्नाकरपाठ:-"ततश्च परार्थाः चक्षुरादय इत्यादौ पारार्थ्यमात्राभिधानेऽप्यात्मार्थत्वमेव साध्यं प्रसिद्ध्यति, तद्धीच्छया व्याप्तं साङ्ख्यस्य बौद्धं प्रति साध्यमेव , आत्मा हि साङ्ख्येन साधयितुमुपक्रान्तः, ततोऽसावेव साध्यः, अन्यथा साधनस्य वैफल्यापत्तेः, संहतपरार्थत्वेन बौद्धैः चक्षुरादीनामुपगमाद्, एवं चाऽऽत्मनः साध्यत्वे हेतोरिष्टविघातकारितया विशेषविरुद्धत्वं साध्यस्य च दृष्टान्तदोष: साध्यवैकल्यमिति ।" अत्र हेतोरिष्टविघातकारितयेति । हेतोः सङ्घातत्वस्य शयनीयादिदृष्टान्तगतस्य सङ्घातपरार्थत्वेन व्याप्तस्य, इष्टो यः साङ्ख्यस्याऽसंहत आत्मा तस्य यो विघातो-असंहतत्वस्वरूपापनोदः, तत्कारितया संहतात्मस्वरूपज्ञापकतयेति यावत् । विशेषविरुद्धत्वमिति । विशेषः परार्थत्वलक्षणसाध्यस्याऽसंहतपरार्थत्वम्, [तदभावेन संहतपरार्थ]त्वेनैव व्याप्तस्याऽसंहतात्मार्थत्वेन सहैकाधिकरणावृत्तित्वम् । तथा च विरोधलक्षणो हेतुदोषः । साध्यस्य-साङ्ख्याभिमतात्मार्थत्वलक्षणसाध्यस्य, चकाराद् विशेषविरुद्धत्वं हेतुविशेषेण दृष्टान्तगतेन सङ्घात