________________
१३४
सटीकजैनतर्कभाषायां
कथायां शङ्कितस्यैव साध्यस्य साधनं युक्तमिति कश्चित्,
कथायां यथा सन्दिग्धार्थनिर्णयाय वादी समुपसर्पति, तथा विपरीतस्याऽप्यर्थस्य स्वयं सत्यतयैवाऽवधारितस्य ‘परः कथमस्य वैपरीत्यं साधयितुं प्रगल्भते' इति जिज्ञासया विपर्यस्तः, 'ममाऽज्ञानमनध्यवसायो वा यथावस्थितार्थावबोधतो विनङ्क्ष्यती 'ति मतिमास्थायाऽव्यु - त्पन्नश्चाऽपि कथायामुपसर्पत एवेति तौ प्रति विपर्ययानध्यवसायनिरासार्थमपि संशयनिरासार्थमिवाऽनुमानप्रयोगः सम्भवत्येवेति शङ्कितत्वमिव विपरीतत्वानध्यवसितत्वेऽपि साध्यविशेषणतयोपयुक्ते एवेत्याह
तन्न, विपर्यस्ताव्युत्पन्नयोरपि परपक्षदिदृक्षादिना कथायामुपसर्पणसम्भवेन, संशयनिरासार्थमिव विपर्ययानध्यवसायनिरासार्थमपि प्रयोगसम्भवात् पित्रादेर्विपर्यस्ताव्युत्पन्नपुत्रादिशिक्षाप्रदानदर्शनाच्च ।
न चैतत् कल्पनामात्रम् । दृश्यतेऽपि लोके विपर्यस्ताव्युत्पन्नपुत्रादिशिक्षणार्थं यथावस्थिततत्त्वावबोधकन्यायप्रयोगे यतमानः पित्रादिः । अन्यथा विपर्यस्तमव्युत्पन्नं वा पुत्रादिकं प्रति विपरीतस्याऽनध्यवसितस्य वा वस्तुनोऽसाध्यत्वेन, साधनासम्भवेऽशक्यानुष्ठाने प्रवर्त्तमानः पित्रादिः प्रेक्षावतामुपहसनीय एव स्यादित्यभिप्रायः ।
विपरीतानध्यवसितयोः साध्यत्वानङ्गीकारेऽनिष्टापत्तिमुपदर्शयति
न चेदेवं जिगीषुकथायामनुमानप्रयोग एव न स्यात्, तस्य साभिमानत्वेन विपर्यस्तत्वात् ।
न चेदेवं=यदि विपरीतानध्यवसितयोः साध्यत्वं न स्यात् तदा । तस्य = जिगीषोः ।
अनिराकृतमिति चैकेन वादिना प्रतिवादिना वाऽनिराकृतमिति नाऽभिमतम्, किन्तु वादिप्रतिवादिभ्यामुभाभ्यामपि यत् प्रत्यक्षादिप्रमाणेन निराकृतं न भवति, तदेव साध्यत्वेनाऽभिमतमित्याह
अनिराकृतमिति विशेषणं वादिप्रतिवाद्युभयापेक्षया-द्वयोः प्रमाणेनाऽबाधितस्य कथायां साध्यत्वात् ।
द्वयोः = वादिप्रतिवादिनोः ।
अभीप्सितमिति तु अनुमानप्रयोक्तुरेवाऽभिमतमित्येवं रूपमित्याह
अभीप्सितमिति तु वाद्यपेक्षयैव, वक्तुरेव स्वाभिप्रेतार्थप्रतिपादनायेच्छासम्भवात् । वाद्यपेक्षया=अनुमानप्रयोगकर्त्रपेक्षया । तथा चाऽभीप्सितमित्यस्य वाद्यभीप्सित