________________
साध्यलक्षणम्
१३३
ज्ञानविषयाभावप्रतियोगित्वेन वह्नेर्विपरीतत्वादप्रतीतत्वम् । यश्च प्रतिपत्ता पर्वतेऽस्तित्वेन नास्तित्वेन च वह्निं न जानात्येव, जानानोऽपि वा 'किमप्यत्राऽस्तीत्येवमेवाऽवगच्छति, तं प्रति वह्नेरनध्यवसितत्वादप्रतीतत्वम् । इत्थं सन्दिग्धविपर्यस्ताव्युत्पन्नान् प्रति भवति वह्नेः साध्यत्वमित्येतदधिगतयेऽप्रतीतमिति विशेषणमित्यर्थः । तेन यश्च पर्वते वह्नि निश्चिनोत्येव, तं प्रति तस्य साध्यत्ववारणायाऽप्रतीतिमिति विशेषणमित्यावेदितं भवतीति ।
अनिराकृतमिति विशेषणस्य प्रयोजनमुपदर्शयति
प्रत्यक्षादिविरुद्धस्य साध्यत्वं मा प्रसाङ्क्षीदित्यनिराकृतग्रहणम् ।
अत्र आदिपदादागमादेर्ग्रहणम् । 'वह्निरनुष्णः - कृतकत्वा'दित्यत्राऽनुष्णत्वम्= उष्णस्पर्शाभावः साध्यतया प्रयोक्तुरिष्टः, स च वह्नावुष्णस्पर्शग्राहिप्रत्यक्षविरुद्ध इति प्रत्यक्षप्रमाणनिराकृतत्वाद् न तस्य साध्यत्वम् । अनिराकृतत्वविशेषणानुपादाने तु तस्याऽप्यप्रतीतत्वेनाऽभीप्सितत्वेन च साध्यत्वं प्रसज्येतेति तस्य साध्यत्वं मा प्रसाङ्क्षीदित्येतदर्थमनिराकृतमिति विशेषणम् । एवं 'जैनै रजन्यां भोजनं भजनीयं - मनुष्यत्वाद्-उभयसम्प्रतिपन्नरात्रिभोजिजनव'दित्यत्र जैननिष्ठरात्रिभोजनकर्तृत्वं साध्यम्, तच्च जैनागमप्रमाणविरुद्धं तत्र जैनानां रात्रिभोजननिषेधादिति तस्य साध्यत्वनिराकरणायाऽपि तद् उपादेयम् । तथा 'आत्माज्ञानशून्यो-अमूर्त्तत्वाद्-धर्मास्तिकायादिव' दित्यत्र ज्ञानशून्यत्वस्य साध्यत्वेनाऽभिमतस्य धर्मिण आत्मनः साधकस्याऽनुमानप्रमाणस्य ज्ञानवत्त्वेनैवाऽऽत्मनो ग्राहकत्वेन, तद्विरुद्धस्याऽऽत्मगतज्ञानाभाववत्त्वस्याऽनुमाननिराकृतस्य साध्यत्वापनोदायाऽपि तद् विशेषणमित्यर्थः ।
अभीप्सितत्वविशेषणस्य प्रयोजनमुपदर्शयति
अनभिमतस्याऽसाध्यत्वप्रतिपत्तयेऽभीप्सितग्रहणम् ।
नैरात्म्यवादिनं बौद्धं प्रति स्थिरात्मसाधनाय कपिलानुयायिनः साङ्ख्याः 'चक्षुरादयःपरार्था:- सङ्घातत्वाद्(-ये ये सङ्घातरूपाः ते ते परार्था यथा शयनीयादय' इति प्रयोगमारचयन्ति । तत्र चक्षुरादीनां पारार्थ्यं यत् साध्यम्, तद् आत्मार्थत्वमेव साङ्ख्यानामुक्तप्रयोगप्रयोक्तृणामभीप्सितम्, न तु बौद्धाभिमतं चक्षुरादीनां संहतपरार्थत्वम् । तत्साधने हि न साङ्ख्यानामात्मा सिध्यति, तत्र वैफल्यमेवाऽनुमानस्येति साङ्ख्यानभिमतस्य संहतपरार्थत्वस्याऽसाध्यत्वावबोधनायाऽभीप्सितग्रहण् । तथा चाऽभीप्सितस्याऽऽत्मार्थत्वस्यैव साध्यत्वम्, न तु संहतपरार्थत्वस्य । चक्षुरादीनां संहतपरांर्थत्वे तु सोऽपि संहतः परः सङ्घातरूपत्वात् संहतपरार्थः, एवं सोऽपीत्यनवस्था प्रसज्येत इति संहतपरार्थत्वसाधनप्रतिकूलः तर्क इत्यर्थः ।
शङ्कितस्यैव साध्यत्वम्, न तु विपरीतानध्यवसितयोरिति परमतमुपन्यस्य प्रतिक्षिपति