________________
१३२
सटीकजैनतर्कभाषायां लक्षणम्-असाधारणधर्मत्वस्वरूपलक्षणत्वसामान्यधर्मप्रकारकजिज्ञासाविषयीभूतज्ञानविषयः । जिज्ञासा च साध्यासाधारणधर्मप्रकारकज्ञानं मे जायतामित्याकारिका-किमो जिज्ञासार्थकत्वात् । अथवा किमित्याक्षेपे, यत्किमपि लक्षणं ग्रन्थकृतोपदर्शनीयम्, तत् सर्वं दोषकवलितमेव भविष्यतीति लक्षणाभावाद् नाऽस्त्येव साध्यमिति तद्विषयकमनुमानमपि न सम्भवति-विषयाभावे विषयिणोऽप्यभावादित्याक्षेपः ।
___ यत्प्रमाणमुपजीव्यैव प्रत्यक्षादीनि प्रमाणतया व्यवस्थितानि भवन्ति-'इदं प्रमाणं संवादिप्रवृत्तिजनकत्वा'दित्याद्यनुमानमन्तरेण प्रत्यक्षादीनां प्रामाण्याव्यवस्थितेः, तस्याऽनुमानस्य विषयोऽस्त्येव साध्यम् । तल्लक्षणं यद्यप्येकान्तवाद्यभिमतं सर्वं दोषकवलितम्, तथापि स्याद्वादिनामस्माकमभिमतं साध्यलक्षणं दोषलेशासम्पृक्तमस्त्येवेत्याशयवान् ग्रन्थकृदाह
उच्यते-अप्रतीतमनिराकृतमभीप्सितं च साध्यम् ।
अत्र साध्यमिति लक्ष्यनिर्देशः, अप्रतीतमनिराकृतमभीप्सितं चेति लक्षणवचनम् । पर्वतो वह्निमान् धूमादित्यादौ वह्निः साध्यः । स च वह्नित्वेन सामान्यतः प्रतीतोऽपि पर्वतगततया साध्यत्वेनेष्टः पर्वतीयवह्निस्वरूपो न केनापि प्रमाणेन प्रतीत इत्यप्रतीतत्वं तस्य । तथा पर्वतरूपमिणि न स केनापि प्रमाणेन निराकृतः-पर्वते वक़्यभावसाधकस्य कस्यापि प्रमाणस्याऽभावादित्यनिराकृतत्वमपि तस्य । इष्टश्च पर्वते साधयितुं प्रमातुः सः-'पर्वते वह्निमनुमिनुया'मितीच्छाविषयानुमितिविषयत्वाद् । उभयं हि लोकेऽभीप्सितं भवतिसुखदुःखाभावान्यतररूपं फलं साक्षात् परम्परया वा तत्साधनं च, सुखसाधनशीतापनोदपाकादिसाधनत्वाद् वह्निरपि तथेत्यभीप्सितत्वमपि तस्य । एवमप्रतीतत्वादिविशेषणत्रयवत्त्वलक्षणं तत्र वर्त्तते इति लक्षणसमन्वयः ।
तत्राऽप्रतीतत्वस्य कृत्यमुपदर्शयतिशङ्कितविपरीतानध्यवसितवस्तूनां साध्यताप्रतिपत्त्यर्थमप्रतीतमिति विशेषणम् ।
यद्यपि संशयादेरपि ज्ञानत्वमेवेति तद्विषयोऽपि प्रतीत एव, तथापि अप्रतीतत्वमत्र प्रमात्मकनिश्चयाविषयत्वं विवक्षितम् । लोके य एव प्रमात्मकनिश्चयविषयः स एव प्रतीत इति व्यवहियते । यः खलु प्रमाता 'पर्वतो वह्निमान् न वे'ति पर्वते वह्रि सन्दिग्धे, तं प्रति संशयात्मकज्ञानविषयत्वेन वह्नः शङ्कितत्वादप्रतीतत्वम् । यश्च भ्रान्तः प्रतिपत्ता पर्वते सन्तमपि वह्नि 'नाऽस्त्यत्र वह्नि'रिति पर्वतवृत्त्यभावप्रतियोगित्वेनाऽवधारितवान्, तं प्रति विपर्ययात्मक
१. अस्य साध्यपदार्थेऽन्वयः । २. संशितत्वादिना प्रतीतः ।