________________
हेतुलक्षणचर्चा
१३१
सप्रतिपक्ष इति प्राचीनमते तु-अयं न मूर्खः शास्त्रज्ञत्वादिति प्रतिस्थापनानुमाने सति, मूर्खत्वविरुद्धमूर्खत्वाभावसाधक - मूर्खत्वाभावव्याप्यशास्त्रज्ञत्ववत्तापरामर्शकालीन - मूर्खत्वव्याप्यतत्पुत्रत्ववत्तापरामर्शविषयः तत्पुत्रत्वहेतुः सत्प्रतिपक्ष इति बोध्यम् ।
अतिप्रसङ्गवारणाय=बाधितसत्प्रतिपक्षितहेत्वोरलक्ष्ययोः सद्धेतुलक्षणस्याऽतिव्याप्तेर्वारणाय । प्रागुक्तरूपत्रयं - पक्षसत्त्व - सपक्षसत्त्व - विपक्षासत्त्वलक्षणरूपत्रयम् ।
नैयायिकमतखण्डने हेतुमाह
उदेष्यति शकटमित्यादौ पक्षधर्मत्वस्यैवाऽसिद्धेः
अत्र कृत्तिकोदयहेतौ पक्षस्य कस्यचिदभावादेव पक्षधर्मत्वस्याऽसिद्ध्या पक्षधर्मघटितपञ्चरूपत्वं सद्धेतुलक्षणं नाऽस्तीति लक्ष्ये तस्मिन् उक्तसद्धेतुलक्षणस्याऽभावादव्याप्तिरित्यर्थः । अलक्ष्येऽपि तत्पुत्रत्वादिलक्षणे दुष्टहेतावेतल्लक्षणमस्तीत्यतिव्याप्तिरप्यत्र दोष इत्याहस श्यामः तत्पुत्रत्वादित्यत्र हेत्वाभासेऽपि पाञ्चरूप्यसत्त्वाच्च ।
मित्रानाम्नी काचिदङ्गना । तस्याः पञ्च पुत्रा बभूवुः । तत्र चत्वारः श्यामरूपवन्तः, एकस्तु पञ्चमो गौरः । तं गौरं पक्षीकृत्य' मित्रापुत्रत्वेन हेतुना श्यामत्वं कश्चित् साधयन् 'स श्यामः तत्पुत्रत्वा'दित्यादिन्यायं प्रयुङ्क्ते । अत्र तत्पुत्रत्वहेतौ पक्षसत्त्वादीनि पञ्चाऽपि रूपाणि विद्यन्ते, परं नाऽयं सद्धेतुः -श्यामत्वलक्षणसाध्यव्यापकस्य तत्पुत्रत्वलक्षणहेत्वव्यापकस्य शाकपाकजत्वरूपोपाधेः सत्त्वेन, सोपाधिकत्वाद् व्याप्यत्वासिद्धिलक्षणदोषाक्रान्तत्वेन हेत्वाभासत्वात् । इत्थमलक्ष्यीभूते तस्मिन् लक्षणगमनादतिव्याप्तिरिति न निरुक्तपञ्चरूपोपपन्नत्वं हेतुलक्षणमित्यर्थः ।
एवं च परोक्तहेतुलक्षणे प्रत्याख्याते सति स्वाभिमताया अन्यथानुपपत्तेरेकस्या एव सर्वसद्धेतुगतत्वाद् दुष्टहेत्ववृत्तित्वाच्च लक्षणत्वमुचितमित्याह
निश्चितान्यथानुपपत्तेरेव सर्वत्र हेतुलक्षणत्वौचित्यात् ।
साध्यस्वरूपं निरूपयितुं तन्निरूपणानुकूलामुपोद्घातसङ्गतिमुपजीवन् परशङ्का
मुत्थापयति
ननु हेतुना साध्यमनुमातव्यम्, तत्र किंलक्षणं साध्यमिति चेद्,
तत्र - अनुमानविषयीभूते साध्येऽवश्यवक्तव्ये सति । लक्षणाधीना लक्ष्यव्यवस्थितिरिति न हि साध्यस्य लक्षणमप्रदर्श्य साध्यस्वरूपमनुमानविषयतया निर्द्धारयितुं शक्यमिति किं
१. यः श्यामत्वं साधयति स न जानाति यद् अयं गौर इतीह ज्ञेयम् | नो चेद् बाधितविषयत्वाभावो नोपलभ्येत ।