________________
१३०
सटीकजैनतर्कभाषायां बाध्यमानत्वादनुपादेयत्वमेवेत्याशयः । सुधीभिरिति । एतेन-पक्षपाताचान्तस्वान्ताः कुधिय एव, तैरयथावद् विचारणेन परपक्षस्य समर्थनेऽपि न क्षतिः-इति प्रकटितम् ।
सिद्धे चोक्तदिशा पक्षधर्मताया अनुमित्यनङ्गत्वे, हेतोः पक्षधर्मत्वोपपादनायाऽननुभूयमानप्रकारेण पक्षसाध्यहेतुघटितप्रयोगविन्यासः परस्याऽऽयासमात्रफलक एव । तथा व्यवस्थापिते हेतोरन्यथानुपपत्त्येकलक्षणत्वेन, नैयायिकस्य पक्षसत्त्व-सपक्षसत्त्व-विपक्षासत्त्वैतद्वौद्धोक्तत्रिरूपसहितस्याऽबाधितत्वासत्प्रतिपक्षत्वलक्षणरूपद्वयस्याऽनुमित्यङ्गत्वसमर्थनेन पाश्चरूप्यस्य हेतुलक्षणत्वमित्यभिधानमप्यपहस्तितं भवतीत्याशयेनाऽऽह
इत्थं च–'पक्वान्येतानि सहकारफलानि एकशाखाप्रभवत्वाद्-उपयुक्तसहकारफलव'दित्यादौ बाधितविषये, 'मूर्योऽयं देवदत्तः-तत्पुत्रत्वाद्-इतरतत्पुत्रव'दित्यादौ सत्प्रतिपक्षे चाऽतिप्रसङ्गवारणाय अबाधितविषयत्वासत्प्रतिपक्षत्वसहितं प्रागुक्तरूपत्रयमादाय पाञ्चरूप्यं हेतुलक्षणम् इति नैयायिकमतमप्यपास्तम्,
इत्थं पक्षधर्मत्वाभावेऽपि उदेष्यति शकट-कृत्तिकोदयादित्याद्यनुमानदर्शनेन पक्षधर्मत्वस्याऽनुमित्यनङ्गत्वव्यवस्थितौ । पक्वान्येतानीत्यादि हेतुलक्षणमित्यन्तं नैयायिकमतगुम्फनम् । अत्र-एतानि सहकारफलानि पक्वानीति प्रतिज्ञा, एकशाखाप्रभवत्वादिति हेतुः, यद्यदेकशाखाप्रभवं तत्तत् पक्वं यथोपयुक्तसहकारफलमित्युदाहरणम्, एकशाखाप्रभवाणि चैतानि सहकारफलानीत्युपनयः, तस्मात् पक्वानीति निगमनम् । नैयायिकैः पञ्चावयवोपगमात् तन्मतोपदर्शने पञ्चाऽप्यवयवाः प्रयोक्तव्या इत्यावेदनायाऽऽदावित्युक्तम् ।
बाधितविषये बाधितो विषयः साध्यं यस्य हेतोरेकशाखाप्रभवत्वस्य, स बाधितविषयः तस्मिन् । अस्य अतिप्रसङ्गवारणायेत्यत्राऽतिप्रसङ्गेऽन्वयः । बाधश्च साध्याभाववान् पक्षः । प्रकृतेऽपक्वान्येवाऽऽम्रफलानि पक्षीकृत्य तत्र पक्वत्वं साध्यते इति साध्याभाववान् पक्षः समस्तीति एकशाखाप्रभवत्वहेतुर्बाधितविषयः ।
मूोऽयमिति । अत्र-अयं देवदत्त इति पक्षः, मूर्ख इति मूर्खत्वं साध्यम्, तत्पुत्रत्वात्-चैत्रपुत्रत्वादिति चैत्रपुत्रत्वं हेतुः, इतरतत्पुत्रवद्-देवदत्तभिन्नचैत्रपुत्रवदिति दृष्टान्तः । इत्यादावित्युपादानादत्राऽपि पञ्चावयवा उपलक्षिता भवन्ति, ते चोपदर्शिता भावनीयाः ।
अत्र नव्यनैयायिकमते 'साध्याभावव्याप्यवान् पक्षः सत्प्रतिपक्ष' इति लक्षणानुसाराद् मूर्खत्वाभावव्याप्यशास्त्रज्ञत्ववान् देवदत्त इति सत्प्रतिपक्षः । 'स्वसाध्यविरुद्धसाध्याभावसाधक-साध्याभावव्याप्यवत्तापरामर्शकालीन-साध्यव्याप्यवत्तापरामर्शविषयः प्रकृतहेतुः