________________
अनुमितौ पक्षभानव्यवस्था
१२९ लाभात्, सार्वत्रिक्या व्याप्तेविषयभेदमात्रेण भेदस्य दुर्वचत्वात् ।
यदा च स्वरूपत एवाऽन्तर्व्याप्तिबहिर्व्याप्त्योर्भेदो, न तु विषयभेदकृतः, तदाऽन्तर्व्याप्तिशरीरे पक्षस्याऽप्रविष्टत्वात् तद्ग्रहे न पक्षस्य धर्मितया भानमिति नाऽन्तर्व्याप्तिग्रहीया धर्मिविषयताऽनुमितौ धर्मिविषयतायाः प्रयोजिकेति क्वचिदन्यथानुपपत्त्यवच्छेदकतयेत्यादिदिगेवाऽस्मद्दर्शिताऽवलम्बनीयेत्याशयः ।
सहचारमात्रत्वस्येत्युक्त्या-वस्तुस्थित्या बहिर्व्याप्तिाप्तिरेव न भवति, नाऽतोऽस्याः साध्यप्रत्यायनशक्तिरपि, साध्यप्रत्यायनशक्तिमाबिभ्राणाया अन्तर्व्याप्तेः सकाशात् स्वरूपत एव भिन्नेयं न स्वगतभेदे विषयभेदमपेक्षते, सार्वत्रिकी त्वन्तर्व्याप्तिः साध्यसामानाधिकरण्यमपि स्वरूपाव्यभिचारात्मकस्वशरीरे प्रवेशयन्त्यपि तत्रोदासीनैव-नियमांशमात्रत एव स्वकार्यजनकत्वाद्, अतो हेतुव्यापकसाध्यसामानाधिकरण्यरूपतां बिभ्राणाऽपि सा नियमांशविनिर्मुक्तसाध्यसहचारमात्रस्वरूपबहिर्व्याप्तितः स्वरूपतो भिन्ना भवत्येव-इत्यावेदितम् ।।
न चेदेवं तदाऽन्तर्व्याप्तिग्रहकाले एव पक्षसाध्यसंसर्गभानादनुमानवैफल्यापत्तिः विना 'पर्वतो वह्निमा'नित्युद्देश्यप्रतीतिमिति यथातन्त्रं भावनीयं सुधिभिः ।। ____न चेदेवमिति । स्वरूपतोऽन्तर्व्याप्तिबहिर्व्याप्त्योर्भेदो नाऽभ्युपगम्यते, किन्त्वन्तर्व्याप्तौ पक्षस्य सन्निविष्टत्वात् तद्ग्रहे पक्षस्य धर्मितया भानादनुमितौ धर्मितया पक्षस्य भानम्, एतावतैव न हेतोः पक्षधर्मतापेक्षेत्येव यदि स्वीक्रियते इत्यर्थः । तदाऽन्तर्व्याप्तिग्रहकाले एव-यदा सर्वोपसंहारेण साध्यहेत्वोर्व्याप्तिग्रहणम्, तत्काले तस्मिन् व्याप्तिग्रहे एव । 'पक्षसाध्यसंसर्गभाना'दित्यस्य प्रागेव 'विना "पर्वतो वह्निमा"नित्युद्देश्यप्रतीति'मिति ग्रन्थ आकर्षणीयः । तथा च 'पर्वतो वह्निमा'नित्युद्देश्यप्रतीति विनापि पक्षसाध्यसंसर्गभानाद्, अनुमानवैफल्यापत्तिः पर्वतो वह्निमानित्यनुमितेर्वैफल्यं स्याद् । अनुमित्याऽपि पक्षसाध्यसंसर्ग एव बोधनीयः, स चाऽन्तर्व्याप्तिग्रहेण बोधित एवेत्यर्थः ।
अस्मत्पक्षो युक्तः पूर्वपक्षो वेत्यत्र स्वस्वशास्त्रनिष्णाताः कृतबुद्धयः सुधिय एव प्रमाणम् । तैर्यथा भावयिष्यते तथाऽस्माभिरपि विचारणीयमेवाऽवधारणीयमेव वेति ग्रन्थगौरवभयाद् नाऽत्र विचारसम्भारः प्रकटीक्रियते । पक्षधर्मता तु नाऽनुमितावङ्गमित्येतत्प्रसिद्ध्यैव कृतकृत्या वयमित्याशयेनाऽऽह-यथातन्त्रमिति । स्वसिद्धान्तमनतिक्रम्येत्यर्थः । तथा चाऽपसिद्धान्ताद् बिभ्यतां सुधियामस्मद्दर्शित युक्तिमार्ग एवाऽनुभवपथमागमिष्यतीत्यभिप्रायः । भावनीयं-विचारणीयम् । तथा चाऽऽपाततः परपक्षस्य प्रथमं बुद्धौ भासनेऽपि, विचारतो
१. साध्यप्रत्यायनम् ।