________________
सटीकजैनतर्कभाषायां
१२८
चोक्तग्रहे विषयस्य चाऽन्तर्व्याप्तेः कारणत्वविवक्षया तृतीयोपपत्तिः ।
पक्षीयसाध्यसाधनसम्बन्धस्याऽन्तर्व्याप्तित्वे स्याद्वादरत्नाकरसूत्रं प्रमाणयति - तदुक्तमिति। व्याप्तेरन्तरिति विशेषणं तदैव साफल्यमञ्चेद् यद्यन्यादृगपि व्याप्तिः स्यात् । अस्ति चेत् का सा, किञ्च तल्लक्षणमित्यनुयोगे, बहिर्व्याप्तिः सा, दृष्टान्ते एव विषये साध्यसाधनयोर्व्याप्तिर्बहिर्व्याप्तिरिति तल्लक्षणमिति प्रासङ्गिकविचारमवलम्ब्य स्याद्वादरत्नाकरसूत्रं बहिर्व्याप्तिलक्षणप्रकाशकमुपदर्शयति- अन्यत्र त्विति । अन्यत्र = पक्षीकृताद् भिन्ने, दृष्टान्ते इति यावद् ।
यद्ग्रहणं पक्षे एव भवति साऽन्तर्व्याप्तिः, यद्ग्रहणं पक्षबहिर्भूतदृष्टान्ते एव भवति सा बहिर्व्याप्तिरिति ग्रहणे पक्षान्तर्भावबहिर्भावकृतो नाऽन्तर्व्याप्तिबहिर्व्याप्त्योर्भेदः, किन्तु साध्यवदन्यावृत्तित्वादिलक्षणाऽव्यभिचारस्वरूपाऽन्तर्व्याप्तिः, सा यदि पक्षेऽपि हेतुसाध्ययोः सत्त्वं भवेत् तदैव स्यादित्येतावन्मात्रोपदर्शनार्थमेव 'पक्षीकृत एवेत्यादि तल्लक्षणप्रणयनं सूरेः, बहिर्व्याप्तिस्तु नाऽव्यभिचार:, किन्तु साध्यहेत्वोः सामानाधिकरण्यमात्रम्, तच्च पक्ष भन्ने दृष्टान्तमात्रे साध्यहेत्वोः सद्भावतः उपपद्यते इत्येतावन्मात्रपरमेव 'अन्यत्र तु बहिर्व्याप्तिरिति तल्लक्षणप्रणयनम्, न तु तयोर्व्याप्त्योर्विषयभेदख्यापनार्थं तत् - सार्वत्रिकत्वमन्तरेण व्याप्तेः स्वरूपलाभस्यैवाऽसम्भवेन विषयभेदप्रयुक्तभेदस्य तत्राऽसम्भवात् । तथा च स्वरूपप्रयुक्ताव्यभिचारलक्षणैवैका व्याप्तिर्वास्तविकी, अन्या त्वौपाधिक्येवेत्युक्तसूत्ररहस्यमित्याशयेन प्रदर्शितमतं प्रतिक्षिपति
तन्न, अन्तर्व्याप्त्या हेतोः साध्यप्रत्यायनशक्तौ सत्यां बहिर्व्याप्तेरुद्भावनव्यर्थत्वप्रतिपादनेन, तस्याः स्वरूपप्रयुक्ताऽव्यभिचारलक्षणत्वस्य, बहिर्व्याप्तेश्च सहचारमात्रत्वस्य
न पक्षान्तर्भावानन्तर्भावकृतोऽन्तर्व्याप्तिबहिर्व्याप्त्योर्भेदः, किन्तु स्वरूपत एव तयोर्भेदः, अन्तर्व्याप्तेः साध्यशून्यावृत्तित्वरूपत्वात्, बहिर्व्याप्तेश्च साध्याधिकरणवृत्तित्वरूपत्वात् । तथा च अनुमितिप्रयोजकान्तर्व्याप्तौ पक्षस्याऽघटकतया न तद्भानबलाद् अनुमितिविषयता तत्र पक्षे निर्वाहयितुं शक्येति अनुमितौ तद्भाननिर्वाहाय अस्मदुक्तैव क्वचिदन्यथानुपपत्त्यवच्छेदकतया इत्यादिरीतिरनुसरणीया । यदि च अन्तर्व्याप्तौ नियमतः पक्षभानं स्यात् तदा अन्तर्व्याप्तिग्रह एव पक्षसाध्यसंसर्गस्य भासितत्वात् किं पृथगनुमित्या ? इत्याशयेन पूर्वोक्तमेकदेशिमतं निराकरोति 'तन्न' इत्यादिना ।
ततस्तृतीयाविभक्तेरन्वयाऽनुपपत्तिः । अत एवमन्वयः कार्यः - अन्तर्व्याप्त्या पक्षसाध्यसंसर्गभानम्, कथं भानम् ? पक्षीयसाध्यसाधनसम्बन्धग्रहादिति । यतोऽन्तर्व्याप्तिः पक्षीयसाध्यसाधनसम्बन्धरूपा ततस्तद्ग्रहात् पक्षसाध्यसंसर्गभानमित्याशयः । यथाऽत्र - चक्रेण चक्रभ्रम्या घटो जायते । अथवा ज्ञानं प्रति विषयस्य कारणत्वादन्तर्व्याप्तिग्रहं प्रति अन्तर्व्याप्त्याः कारणत्वविवक्षायामपि तृतीयोपपत्तिः ।