SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ अनुमितौ पक्षभानव्यवस्था १२७ धूमवत्त्वादित्यत्र धूमस्य पर्वते ग्रहणाद वह्नेरपि तत्र भानमिति । व्याप्तिग्रहवेलायां तु पर्वतस्य सर्वत्रानुवृत्त्यभावेन न ग्रह इति । ____ अन्यथानुपपत्तिलक्षणव्याप्त्यवच्छेदकतया यस्य धर्मिणो ग्रहणम्, तस्याऽनुमितौ धर्मितया भानमित्युदाहरति-यथा नभश्चन्द्रेति । समुद्रादिदेशान्तरवर्तिचन्द्रं विना न हि जलचन्द्रोऽनुपपन्नः, किन्तु नभसि चन्द्रं विनैवेति नभ एव बिम्बभूतचन्द्रानुमितौ धर्मितया भासतेतस्यैवाऽन्यथानुपपत्तिलक्षणव्याप्त्यवच्छेदकत्वात् । न ह्यन्यदेशस्थितो धूमो गृहीतः सन् स्वाधिकरणदेशातिरिक्तदेशस्थितवल्यनुमिति जनयितुमलमिति यस्मिन् देशे गृहीतः सन् अनुमितं जनयति स एव देशोऽनुमितौ धर्मितया भासते इत्युदाहरति-क्वचिच्चेति । तत्र-पर्वते । ___ व्याप्त्यवच्छेदकतयैव पर्वतस्य कुतो न भानमिति न शक्यं सर्वोपसंहारेण व्याप्तिग्रहणे धूमाधिकरणमात्राननुगामिनः पर्वतस्य विशिष्याऽप्रतिभासनेनाऽवच्छेदकत्वासम्भवादित्याहव्याप्तिग्रहेति । अन्यथानुपपत्तिलक्षणव्याप्त्यवच्छेदकता, हेतुग्रहणीयाऽधिकरणविधया विषयता वा, नाऽनुमितौ पक्षस्य प्रतिनियतस्य धर्मिविधया भाने प्रयोजिका; किन्त्वन्तर्व्याप्तेरेवाऽनुमितौ प्रयोजकत्वेन, साध्यहेत्वोः पक्षे एव व्याप्तिरन्तर्व्याप्तिरिति लक्षणलक्षितान्तर्व्याप्तिग्रहे धर्मिविधया पक्षस्याऽवश्यम्भानेन तदीयधर्मविषयतैव तत्र प्रयोजिकेति पक्षधर्मत्वस्य हेतुलक्षणत्वाभावेऽपि नाऽनुमितौ प्रतिनियतधर्मिविषयतानुपपत्तिरिति कस्यचिद् मतं प्रतिक्षेतुमुपन्यस्यति यत्तु अन्तर्व्याप्त्या पक्षीयसाध्यसाधनसम्बन्धग्रहात् पक्षसाध्यसंसर्गभानम, तदुक्तं"पक्षीकृत एव विषये साधनस्य साध्येन व्याप्तिरन्तर्व्याप्तिः, अन्यत्र तु बहिर्व्याप्तिरिति;" अन्तर्व्याप्त्येत्यस्य पक्षसाध्यसंसर्गभानमित्यत्राऽन्वयः । कथम्भावाकाङ्क्षायामुक्तंपक्षीयेति । अन्यथा पक्षीयसाध्यसाधनसम्बन्धस्यैवाऽन्तर्व्याप्तिरूपत्वेन, तत्र तृतीयार्थान्वयानुपपत्तिः१ स्यात् । अथवा पक्षीयसाध्यसाधनसम्बन्धग्रहोऽन्तर्व्याप्तिग्रहपर्यवसितः । विषयिणि अन्तर्व्याप्तिरेव अनुमितिप्रयोजिका । अन्तर्व्याप्तौ चाऽवश्यमेव पक्षस्याऽन्तर्भावः । व्याप्तिज्ञानीया धर्मिविषयतैव अनुमितिधर्मिविषयतायां तन्त्रमिति हेतुलक्षणे पक्षधर्मत्वाऽप्रवेशेऽपि अन्तर्व्याप्तिज्ञानबलादेव तज्जन्यानुमितौ पक्षस्यैव धर्मितया भानं न पुनरन्यथानुपपत्त्यवच्छेदकतया हेतुग्रहणाधिकरणतया वा तस्य भानमित्यभिप्रायेण प्रमाणनयतत्त्वालोकीयम् अन्तर्व्याप्तिबहिाप्तिलक्षणपरं सूत्रमवलम्ब्य कस्यचिदेकदेशिनो मतमुपन्यस्यति–'यत्तु' इत्यादिना । १. पक्षीयसाध्यसाधनसम्बन्ध एवाऽन्तर्व्याप्तिः । अतो वाक्यस्याऽस्य अन्तर्व्याप्त्याऽन्तर्व्याप्तिग्रहादित्यर्थः स्यात् ।
SR No.032013
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy